________________
(३३) रोदरोदं मृत्यु मायान्ति सर्वे लब्ध्वा मृत्यु कोऽपि नाऽऽयाति पश्चात् । ये जानन्त्याऽऽत्मस्वरूपं स्वचित्ते तेषां शान्ति र्जायते सत्यसिद्धा ॥ ५० ॥ ज्ञात्वातत्वविनिश्चयं कुरुत वा शान्तं तथा स्वं मनः, धम्र्ये चाऽध्वनि गच्छतां नच भवेकश्चिच्चमिथ्यात्रमः॥ जीवा अन्यनवेषु कर्मगतिमिर्गच्छन्ति भुञ्जन्ति वा, स्वेषां कर्मविपाकमेव नियतो न्यायः सखे वर्त्तते ५१ कर्माऽऽत्मसङ्गोऽयमनादिकालात्, नियोजिते कर्मणि चाऽऽत्मतत्त्वात् प्रादुर्भवत्येव हि शुरुतत्त्वम्, लोकेषु सारं स्फुरदाऽऽत्मतत्त्वम्
॥५२॥ आत्मज्ञानी न बनाति, कर्म कर्मकरोऽपिसन् । आत्मोपयोगतश्चाऽस्ति, धर्म आसक्तिवर्जितः ॥५३॥ अज्ञानी निर्बलोऽतीव, ज्ञानीतु बलवान्महान् । कर्मयोगी तु सम्भूय, ज्ञानी कर्मान्त माचरेत् ॥५४॥ सम्यज्ज्ञानी त्वकर्मा स्या, त्कुर्वन्सर्वाः क्रिया अपि अपनर्बन्धतां याति, आत्मधर्म च गच्छति ॥५५॥ आत्मन्येवाऽऽत्मधर्मोऽस्ति दर्शनज्ञानरूपकः । वीर्यानन्तखरूपोऽस्ति, कर्मनाशात्प्रकाशते ॥५६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com