________________
( ३२) गृह्णन्त्याऽऽत्मविशुद्धिहेतुनिवहं ये भावतो द्रव्यतः, वैदेहाकिल ते भवन्त्यपितनौ मोहोऽस्तुतेषांकुतः ४५ निराऽऽत्मजडतत्वानां, ममतालीयते स्वतः । नाहंकारो जडेषु स्या, जडोजाड्येन वर्त्तते ॥ १६ ॥ आत्मोपयोगे परिणामवाँश्चेत् आत्मा तदाऽसौ लन्नते हि मुक्तिम् ॥ शोकादिकं तद्व्यवधूय शीघ्रं, धर्मे प्रवृत्तिं कुरु नन्दिबन्धो !!
॥४७॥ आत्मोपयोगिनि तथाऽपगते च मोहे, नो जायते मनसि कोऽपि शरीरशोकः ॥ संजायते किमपि शुद्धमपारधैर्य, लोकेषु सारमिह केवल माऽऽत्मतत्वम् ॥४८॥ अज्ञानेनाऽऽत्मतत्वस्य चनिजहृदये जायते मोहवेगः, त्वं चाहं चेतिवृत्तिनहि जडविषये जायते चाऽऽत्मबोधात् ॥ शीघ्र कामस्य वेगो विलयमतितरां याति सामूलचूडं, तस्मा लोकेषु सारं नविक !!विजयते शुद्धमाऽऽत्मैकतत्त्वम्
॥४९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com