________________
( २४ ) शोकविनाशकग्रन्थः .-
. प्रणम्य श्रीमहावीरं, सर्वज्ञं जिनशेखरम् । करोमि तत्प्रबोधाऽऽत्म-, ग्रन्थं शोकनिवारकम् ॥१॥ सिद्धार्थभूपे जनके दिवंगते, स्वर्ग गतायां त्रिशलाख्यमातरि । लेभेऽथ शोकं हृदये सुदर्शना, शोकं तथाऽवापस नन्दिवर्धनः देशे तथा ज्ञातिगणे कुटुम्बे, शोकः परं व्याप प्रजागणेषु । श्रीमन्महावीरमनोऽन्तराले, भृशंतरां भावदयाऽऽविरासीत् स बोधयामास च नन्दिवर्धनं, तथा कुटुम्बान्पुरवासिमानवान् । शुक्संनिरोधो वरबोधतोऽभव, तथा यथा सन्तुतुषुश्चतेजनाः
॥४॥ मातुः पितुश्च मरणेन कथं स्वचित्ते, शोक परं वितनुषे म्रियते न चाऽऽत्मा। सर्वाऽऽत्मनां मिलति याति तनुः स्वभाग्या, दायुःक्षये गमनशम्बलमस्ति धर्मः ॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com