________________
( २३ ). विज्ञाय मत्समान्विश्व-, जीवान्मैत्र्यादिनावतः । विश्वस्य सर्वजीवेषु, दृश्योऽहं ब्रह्मवेदिभिः ॥ ११०॥ हिंसाद्यधर्मयुद्धानि, देशरङ्गादिमोहतः। धर्मान्धरागतो भक्तैः कर्त्तव्यानि न सजनैः ॥१११॥ धर्मादिभेदभिन्नानां, विश्वस्वसर्वदेहिनान् । सार्धमाऽऽत्म्यैक्यभावेन, वर्त्तनं शान्तिशर्मदम् । ११२॥ आहारादिसमुत्पाद्यं, न्यायसंपन्नवित्ततः । मृषास्तेयादिकं त्यक्त्वा, स्वकीयं जीवनं वहेत्॥११३॥ सूरिवाचकसाधूनां, साध्वीनां च विशेषतः। सेवानक्तिः सदा कार्या, आहारादिप्रदानतः ॥११॥ श्रेणिक ! ! त्वां प्रजाकार्यै, राज्यं समुपदिष्टवान् । नूपानामपि भूपानां-, त्यागिनां राज्यमाऽऽत्मनि॥११५॥ त्वं स्वाधिकारतो गच्छ, शुद्धाऽऽत्मोल्लासमाप्नुहि। विज्ञापय प्रजाकार्य, मार्य्यत्वोल्लासलब्धये ॥११६॥ श्रेणिकं बोधयामास, हर्षों भूपप्रजास्त्रभूत् । प्रणमन्ति प्रभोः पादौ, प्रभुं स्मृत्वा शमाप्नुयुः॥११७॥ वीरप्रभोश्च सद्बोधे, कृते मोहो निरुध्यते । जायते परमानन्दो, मङ्गलानि पदे पदे। ॥१८॥ प्रजासमाजकर्तव्य-ग्रंथोऽयं चारु निर्मितः। सर्वविश्वोपकाराय, बुद्धिसागरसूरिणा ॥१९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com