________________
( १८ ) आत्मराज्ये यदाजीवे, हाह्यराज्येऽपिशान्तिभाक् । यत्र सापेक्षया ज्ञानं, न पक्षो न कदाग्रहः ॥ ६० ॥ वःतान्तश्च साम्यंचे, त्तदानिस्तंगताध्रुवम् । एतादृशी प्रजा यत्र, तत्र राजाऽपिशोभनः ॥ ६१ ॥ प्रबलोऽस्ति प्रजासंघो, मोहराजपराजयात् । मद्बोधेन प्रजाश्रेष्ठा, सुखं महोधवर्तिनाम् ॥६२॥ मदाज्ञावर्तिनो ये च, परानन्दं प्रविन्दते । ऐक्यवृत्तिः प्रजानूपे, प्रामाणिकप्रवर्त्तनम् ॥६३ ॥ अन्योऽन्य मुपकारी स्या, दात्मैक्येशुन मुत्तमम् । वर्तेत योगसम्मत्या, न क्वेशो देशधर्मयोः ॥ ६४॥ पश्येत्सर्वत्र मां लक्त्या, स्यात्तस्य सफला किया। ईप्रजा भवेयत्र, तत्र व्यक्तो भवेत्प्रभुः ॥६५॥
आत्मज्योतिः प्रकाशेत, प्रजाजीवनमुत्तमम् । मद्यादिव्यसनत्यागो, मतभेदे न खिन्नता ॥ ६६ ॥ हिंसायज्ञप्रचारो न, शान्तिस्तत्र प्रजागणे। वसेन्मांशरणीकृत्य, मज्जापैीवनं वहेत् ॥६७॥ मद्विश्वासं दृढंदध्या, त्सा प्रजाशान्ति माप्नुयात् । अनन्तशक्तिपूर्णोऽहं, पारं कै पिपार्यते ॥६॥ मद्रपीभूयमद्भक्ता, मत्पदंयान्ति भक्तितः। ज्ञायते निजदोषो न, विनिपातस्तु दुर्गुणैः ॥ ६९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com