________________
(१७) साऽपेक्षयाऽखिलं मंत्रं, चतुराचारतत्परा । व्यवस्थया च वर्त्तत, प्रजैवमतिवर्द्धते ॥ ५० ॥ साहाय्यं दु:खिनां दद्या, नेच्छेल्लक्ष्मी मनीतितः। भावान्मध्यस्थकरुणा-, मैत्रीमोदाँश्च धारयेत् ॥५१॥ विषयेषु न मुग्धास्या, प्रजा पुष्यति शक्तितः। वात्मानन्दे सदामनो, दूरतो भोगशर्मतः ॥ ५२ ॥ अपेक्षयाऽखिलान्धर्मा, विद्यात्कर्माप्यपेक्षया । सापेक्ष दर्शनमार्ग, ज्ञात्वाऽऽत्मसरणीवहेत् ॥ ५३ ॥ अल्पदोषो महान्धों, हितंज्ञात्वैव माचरेत् । यथा धूमावृतोवन्हिः प्रवृत्तिदोषिणी तथा ॥ ५४ ॥ स्वप्रवृच्या प्रवर्चेत, शुद्धात्मनि मनःक्षिपेत् । प्रजैवं ज्ञानिनी यत्र, तत्र शान्तिसुखादयः ॥ ५५ ॥ जीवेदात्मविशुद्ध्यर्थ, संकेतोऽपेक्षयाऽखिलः। अनेकान्तविचारज्ञो, निश्चयव्यवहारविद् ॥५६ ॥ असंख्यनयसापेक्षै-, र्योगौर्हि मुक्तिरुद्भवेत् । ज्ञानशीला प्रजा सा स्या, द्या प्रजा ब्रह्मदर्शिनी॥५७॥ बाह्यराज्यं तु तद्धेतुः पारम्पय्येण कथ्यते । आजीविकादिहेत्वर्थ, भूपादीनां व्यवस्थितिः ॥५८॥ आत्मैव परमात्माऽस्ति, मोहनाशात्प्रकाशते । शुद्धाऽऽत्मराज्यसाध्याय, बाह्यराज्यस्य हेतुता ॥५९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com