________________
( १३५ ) देवपूजा गुरोः सेवा, तीर्थयात्रा तपो दमः । दया दानं च साधूनां, संगः कार्यों दिने दिने ॥६६१॥ आत्मज्ञानं च सध्यानं, कर्त्तव्यं मोक्षकांक्षिनिः । आत्मशुझस्वरूपार्थ, यतितव्यं क्षणे क्षणे ॥ ६६२ ॥ सम्यग्दृष्टिप्रदातृणां, गुरूणां हि निजार्पणम्। कर्तव्यं नामरूपादि-मोहं त्यक्त्वा विवकिभिः ६६३ सद्गुणाः सर्वथा ग्राह्या-मोक्षमार्गानुसारिभिः । सर्वथा दुर्गुणास्त्याज्या-मोक्षमार्गविरोधिनः ॥६६॥ आतेध्यानं तथा रौद्र-ध्यानं त्याज्यं विवेकतः।। धर्मध्यानं तथा शुक्ल-ध्यानं ध्येयं विवेकिनिः॥६६५॥ दुष्टलेश्याः परित्याज्या ग्राह्या लेश्याः शुभा जनैः। सात्विकाऽऽहारपानायैः, कर्तव्या चित्तशुद्धता ॥६६६॥ सार्मिकस्य संघस्य, वात्सल्यं भक्तिभावतः । मूरिवाचकसाधूनां, साध्वीनां भक्तिसेवनम् ॥६६७॥ जैनधर्ममहाराज्य-ध्वजः सूर्यशशांकयोः। चिह्नयुक्तः प्रकर्त्तव्यः, स्थाप्यः पूज्यो महोत्सवैः॥६६॥ चतुर्विधस्य संघस्य, पूजनं भक्तिभावतः। साहाय्यं धमिलोकानां, जैनधर्मप्रवृद्धये ॥ ६६९ ॥ शुद्धाऽऽत्मराज्यसज्ज्ञान-पूर्णानन्दाऽऽप्तये ध्रुवम् । यतितव्यं हि सत्प्रीत्या, श्रघ्या जैनधर्मिभिः ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com