________________
( १३४ ) मदर्थ जीविमो लोका मदर्थ कर्मकारकाः । निजाऽऽत्मानं महावीरं, कुर्वन्ति हि जिनं प्रभुम्॥६५१॥ सदाचारविचारै हि, जैनधों जगत्त्रये। विश्वस्थसर्वजावानां, शुद्धिं करोति सर्वदा ॥६५२॥ परस्परोपकारार्थ, यतन्तां भूतले जनाः । मनोवाकायपावित्र्यं, धरन्तु मुक्तिहेतवे । ६५३ ॥ विश्वलोकान् सुखीकर्तु, जैनर्धमप्रचारणाम । कुरुध्वं सर्वखण्डेषु, नास्ति धर्म विना सुखम् ॥६५४॥ मद्बोधं प्राप्य जोलोका दर्शनज्ञानसंयमैः। अज्ञानपापकर्मच्यो रक्षत विश्वदेहिनः ॥६५५ ॥ कुर्वन्तु नैव पापानि, पुण्यं कुर्वन्तु मानवाः। आत्मज्ञानं हृदि प्राप्य, जवन्तु स्वोपयोगिनः॥६५६॥ त्यक्त्वा मिथ्याविकी बुद्धिं, सम्यग्दृष्टिं धरन्तु भोः। दशां वैनाविकी त्यक्त्वा, स्वाभाविकी धरन्तु भोः६५७ दुर्लभं दशदृष्टान्तै-र्खब्ध्वा नृजन्म मोहतः। हारयन्तु न सज्जन्म, धमे दधतु मानवाः ॥६५॥ प्रमादाः परिहर्त्तव्या आत्मोत्साहप्रयत्नतः। विश्वासो नैव कर्तव्यो मोहस्य मोक्षकांक्षिनिः ६५९ दोषाश्चित्तोद्भवास्त्याज्या आत्मेक्षणविवेकतः। षडावश्यककर्माणि, कर्तव्यानि च संध्ययोः ॥६६०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com