________________
दुर्वादिवारिदसमूहमथे समीरम्, भव्याङ्कुर प्रकरजागरणे सुनीरम् | पञ्चाक्षशात्रवपराजयते सुवीरम्, तन्नौमि मुक्तिविमलं सुगुरुं सुधीरम् स्वल्पायुषाऽपि सुरवाक्प्रचुराननेकान्, ग्रन्थान्कुशाग्रधिषणा विभवेन येन । सद्यः प्रणीय जिनशासनदीपकं हि, तन्नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥ ५॥
यो देवमर्त्यपशुपत्रिकदम्बकेषु, एकातपत्रमित्र राज्यमहो करोति । तं मन्मथं वचनहृत्तनुभिर्जयन्तम्, तं नौमि मुक्तिविमलं सुगुरुं सदाऽहम् ॥ ६ ॥
रेरे कृतान्त ! मणिमोषक ! लज्जसे नो, स्तेयं सुशास्त्रनिवहा बहुगईयन्ति । एवं त्वया विमलगच्छमणिग्रहीतो, ह्यस्माकमुत्तमधनं जिनशास्त्रकोशः सच्छास्त्रतत्त्वपरिबोधनबद्ध देहम्, औदार्यधैर्यविनयादिगुणैकगेहम् । पोतं भवाम्बुनिधितीर समागमेऽहम्, एवं सुमुक्तिविमलं सुगुरुं स्तुवेऽहम
11 8 11
Shree Sudharmaswami Gyanbhandar-Umara, Surat
116 11
॥ ८ ॥
www.umaragyanbhandar.com