SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ 732 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद: Subject in brief :— This Bhāṣya explains the mantras Simhe me inanyuh," etc., that are recited while performing Gaṇa Homa. उपक्रमः 66 सिहे मे मन्युः - मन्युः क्रोधः हिनस्तीति हिंसः पृपोदरादित्वाद्धकारसकारयोर्व्यत्यासः मकारस्य सकारः सकारस्य हकारः । सिहः सिंहः जातिशब्दः । वाक्यत्वा (स्या) परिसमाप्तत्वाद्योग्यक्रियाध्यहारः । वर्ततामिति शेषः । मन्युः क्रोधः सः सिंहे प्राणिनां हिंसाकारिण्युग्रजन्तौ वर्तताम्, न मयीति शेषः । एवं प्राणिनामपकारिण्युग्रसत्वे मदीयः क्रोधः प्रवर्तताम् । व्याघ्रे मेऽन्तरामयः - आमयो व्याधिः मे इति सप्तम्यर्थे षष्ठी, मयि वर्तत्सामयो व्याघ्रमृगे महाशार्दूलाख्ये वर्ततां नमीत्यर्थः ॥ उपसंहारः - सहस्राक्षो अमर्त्यः-- सहस्राक्षः बहुदृष्टिः अमर्त्यः अमरणधर्मदेवता स्वभाव इत्यर्थः । यो नो द्वेष्टि न प्रणयति सः रिष्यतु नश्यतु । यं च वयं द्विष्मः तमु जहि । दुर्मित्रा अप्रिया इमा आपः तस्मै भूयासुः योऽस्मान् । द्वेष्टि यं च वयं द्विष्मः ॥ प्रतिपाद्यविषय: No. 651 कोशनिर्दिस्य पातकपरिहरणफलक गणहो मानुष्ठातृकर्तृकमन्य्वामय क्षुत्पिपासाद्यपसारणप्रार्थनपरस्य 'सिंहे मे मन्युः' इत्यादिमन्दम्बस्य विवरणमंत्र भाष्ये दृश्यते ॥ वक्तव्य विशेष - इदानीं प्रसिद्धवेदराशावश्रूयमाणत्वादयं खिलमन्त्र इति भाति । अस्मिन् कोशे मूलं तद्भाष्यं चेत्येतद्वयमपि दृश्यते । भाष्यकर्तुर्नाम च न लिखितम् । No. 658 कोशदृश्यमानभाष्याद्विलक्षणं चेदं भाष्यम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy