SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ 720 DESCRIPTIVE CATALOGUE OF SANSKRIT JİSS. [92: सिद्धमिह देवतियङ्मनुष्यस्थावरस्थानामात्मनां भगवनियाम्यभगवद्धार्यभगवच्छेषतया भगवत्कैकर्यकारकत्वात् (त्प्रकारत्वात्) भगवतश्च तत्प्रतिसंबन्धितया तन्नियामकतद्धारकतच्छषितया तत्प्रकारत्वादाकृतिवाचिनां शब्दानामपर्यवसानवृत्त्या भगवत्पर्यन्तस्वार्थाभिधायित्वात्परमपुरुषस्य शब्दैकगोचरत्वेन शब्दस्य च विशेषणविशेष्यभावसामानाधिकरण्यमुखेन गमकत्यव्यवस्थापनाजीवपरमात्मनोः शरीरशरीरिभावेन तादात्म्यम् । तथाचान्तर्यामिब्राह्मणे उपसंहारः पुनरपि कीदृशः? लोहिताक्षः तरुणतरणिकिरणविकसितसरसीरुहवदरुणेक्षण इत्यर्थः, सूर्यः पूर्वोक्तनिर्वचनः विपश्चित् स भगवान् क्षीरार्णवशायी नारायणः मनसा अस्मद्विषयप्रसादप्रवणेन मानसेन मां स्वाराधनयोग्यत्वाय पुनः पुनातु । पूर्वोक्तानां पश्येमेति बहुवचनानां मामित्यनेनैकार्थत्वेऽपि वा सामानाधिकरण्याभावो विपरिणामो वा। अखिलजनवन्धगुरुषु बहुवचनमित्यनुशासनान्मामित्यने नै]कार्थत्वेऽपि वाक्यभेदेन सामानाधिकरण्याभावान्न दोषः ॥ हरितान्वयदीपेन व्यासनाम्ना विपश्चिता। मन्त्रभाष्यमिदं गुह्यं लिखितं (निखिलं) निरणायि तत् ॥ इति श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयस्य श्रीसुदर्शनाचार्यस्य कृतिषु सन्ध्यावन्दनभाष्यं सम्पूर्णम् ॥ प्रतिपाद्यविषयः अत्र भगवन्नामकीर्तनमहिमोपवर्णनपूर्वकं भगवतो हरेस्सर्वान्तरात्मत्वमभिधाय मन्त्रलक्षणतन्दादिकं प्रकाश्य श्रीवैष्णवसम्प्रदायानुसारेण यजुर्वेदानातानां सन्ध्यावन्दनमन्त्राणां सम्यग्विवरणं कृतम् ॥ वक्तव्यविशेषः मुद्रितमिदं भाष्यं श्रीवैष्णवसंप्रदायानुसारि च दृश्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy