SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ मन्त्रसग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, JIYSORE 709 मात्मपरत्वं वेदान्ते निर्णीतम् । आपो हि ष्ठा मयोभुवः-हे आपः यूयं मयोभुवः स्थ हि सर्वस्य प्राणिजातस्य सुखभूमयो हि । 'यद्वै शिवं तन्मयः' इति मयश्शब्दस्य सुखसाधनवाचित्वात् तत्कार्यस्य तच्छन्देनाभिधानमत्र द्रष्टव्यम् ॥ उपसंहारः हे वरुण अथ अनन्तर तव प्रियाः स्याम । त्वया सकलपापविमोचने कृते मुक्तसमस्तबन्धा वयं 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' इतिवदुत्तरोत्तरं तव प्रीतिवर्धकास्त्वदिच्छानुविधायिनः त्वत्स्वरूपगुणविभूत्यनुभवैकरसा भवेमेत्यर्थः ॥ - षष्टिप्रबन्धनिर्मातुः (निर्माता) शठकोपमुनीशितुः । दासो (शिष्यो) नारायणमुनिर्नित्यमन्त्रानुद(दा)श्चयत् ॥ प्रतिपाद्यविषयः अत्र सन्ध्याकालनिर्णयादिपूर्वकं यथाशास्त्रमनुष्ठितकर्मणः फलाभिधानसहितं च श्रीवैष्णवसम्प्रदायानुराधात् याजुषाणां प्रातमध्याह्नसायंसन्ध्यावन्दनविनियुक्तमन्त्राणां वेदान्तभगवच्छास्त्रानुरोधेन विवरणं सम्यकृतम् ॥ वक्तव्यविशेषः मुद्रितमिदं भाष्यम् । एतत्कोशान्ते एकस्मिन् पत्रे चक्राङ्कनयोग्यमासकालादिकं निर्णातं दृश्यते । एतत्प्रबन्धप्रणेतारः श्रीमदहोबलमठा. स्थानपरम्परायां द्वैतीकिं स्थानमधिष्ठिता यतिपुङ्गवा इति ज्ञायते । भाष्यस्यास्य नित्यामन्त्रार्थानुसंधानदीपिकेत्यपि व्यपदेशो दृश्यते ॥ No. 635 (4883). सन्ध्यावन्दनमन्त्रभाष्यम् (नित्यमन्त्रार्थानुसन्धानदीपिका). Sandhyāvandanamantrabhāsyam. Author-Narayanamuni. | Size-16 x 1 inches. Substance-Palm-leaf. I Character-Telugu. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy