________________
702
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद:
आपोहिष्ठादिमन्त्रस्य सिन्धुद्वीपऋषिः स्मृतः । छन्दो गायत्रमापस्तु देवताः प्रोक्षणे च सः ॥
आपोहिष्ठेत्यादि । मयोभुवः हे आपः यूयं मयोभुवः स्थ सर्वभूतस्य सुखभूमयः खलु । मयः सुखम् । ' यद्वै शिवं तन्मयः ' इति श्रुतेः । किञ्च ता न ऊर्जे दधातन - ता एवंभूताः सुखभूमयः यूयं नोऽस्माकमूर्जे ऊर्जमन्नं दधातन धत्त । ऊर्ज इत्यूर्च्छब्दात् द्वितीयैकवचनस्यैकारो व्यत्ययेन । दधातनेति दधातेर्दानवाचिनो लोट् परस्मैपदमध्यमपुरुषबहुवचनस्य तप्तनप्तनधनाश्चेति तनादेशः । किमर्थमन्नमस्मभ्यामिति चेत्, महे रणाय चक्षसे महते रणाय रमणीयेन्द्रियाय इन्द्रि याणां महत्त्वरमणीयत्वसिद्धयर्थ, अन्नेन हीन्द्रियाणि महत्त्वरमणीयत्वशक्तियुक्तानि भवन्ति । किञ्च यो वश्शिवतमो रसस्तस्य भाजयतेह नः – हे आपः वः युष्माकं यः शिवतमो रसः तस्य भाजयतेह नः - इह जन्मनि नः अस्मान् तस्य भाजयत तं रसं सेवयत ॥
उपसंहारः—
एवमस्माभिर्बहुधा कृतानि यान्येनांसि सर्वा ता विष्य शिथिरेव देव - हे देव तानि सर्वाण्येनांसि विष्य अस्मत्सकाशाद्विसृज । शिथिरा शिथिलानि कुरु । अथा ते स्याम वरुण प्रियासः - हे वरुण अथ एवं भवत्कटाक्षानन्तरं ते तव प्रियासः स्याम । यथोपदेशं मन्त्रार्थो व्याख्यातः ॥
"
प्रतिपाद्यविषय:
अत्र याजुषसंध्यात्रयविनियुक्तमन्त्राणां पातकपरिहरणादिप्रार्थनपराणां ललितयैव वाक्यशैल्या अद्वैतमतानुरोधेन विवरणं कृतम् ॥
वक्तव्यविशेष:
अत्र 9 - 14 पत्रेषु अगस्त्य संहितास्मृतिचन्द्रिकादिसंगृहीतगायत्रीमन्त्रार्थक्रमः, गोपीचन्दनेनार्ध्वपुण्ड्रधारणक्रमः, आचमनसंध्याङ्गतर्पणादिक्रम इत्यादिकं संगृहीतं दृश्यते । अमुद्रितं चैतत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com