________________
मन्त्रसंग्रहः, भाष्यंच GOVERNMENT ORIENTAL LIBRARY, JIYSORE 677
उपक्रमः
हिरण्यवर्णा श्री म हिरण्यवर्णामित्येतत्सूक्तं पञ्चदशमपश्यत् । सैव देवता । अनुष्टुप् प्रथमास्तृचः। *त्रिष्टुभौ। उत्तम(उत्तरा)बृहती। शेषा अनुष्टुभः । लिङ्गोक्तं दैवतं वा, हिरण्यस्यव वर्णो यस्यास्सा हिरण्यवर्णा, हितरमणीयवर्णा, अथवा हर्यतेः प्रेप्साकर्मणो रूपम् । हिरण्यमिति सर्वैर्जनैः प्रेप्सितत्वात्, हिरण्यवर्णी हरिणीं लुप्तोपमैतत् । हरिणी कृष्णमृगी सा यथा पवित्रभूता प्रेम्णा सर्वैः सन्दृश्यते, तद्वत् । अथवा हरिणा देवेन सर्वावतारेषु देवीत्वेन नीयते । उक्तं च पुराणे 'राघवत्वेऽभवत्सीता' इत्यादिना । एवं देवेनानपगामिनीत्वमुक्तम् । सुवर्णरजतम्रजां सुवर्णरजतस्रग्भिरलङ्कताम् ॥ उपसंहारः
सूर्येण भगवता नित्यसम्बन्धात्सूर्या । तथा च पुराणे
मैत्रेय केशवः सूर्यः प्रभा वै कमलालया। __ प्रभासूर्ययोरैक्यात्सूर्येत्युच्यते । हिरण्मयीमित्यादि व्याख्यातम् । तां म आवह–पूर्वार्धो व्याख्यातः । यस्यां . . . . . हिरण्यं . . . . . भूतं । पञ्चम्यर्थे सप्तमी । यस्या देव्यास्सकाशाद्धिरण्यं प्रभूतं प्रवृद्धतरं, गावो दास्यः, द्वितीयार्थे प्रथमा, गाश्च दासीश्च विन्दयं लभेय, अश्वान् पुरुषान् समर्थान् , चकारो द्रष्टव्यः । पुरुषांश्च परिचारकपुरुषांश्च लभेय । हे जातवेदः तां लक्ष्मी मदर्थमावहेति सम्बन्धः । यस्याः प्रसादात्सर्वसम्पत्समृद्धिर्भवति तां लक्ष्मीमस्मदर्थ हे जातवेद आवहेति समस्तार्थः ॥
॥ श्रीसूक्तभाष्यं समाप्तम् ॥ प्रतिपाद्यविषयः___अलक्ष्मीनिराकरणसंपदवाप्तिलक्ष्मीप्रसादादिफलकस्य लक्ष्मीस्वरूपशक्तिमाहात्म्यादिप्रदर्शनपरस्य चास्य पञ्चदशर्चात्मकस्य सूक्तस्य विवरणरूपेऽस्मिन् भाष्ये तत्तन्मन्त्रार्थाः सप्रमाणं निरूपिता दृश्यन्ते ॥
* अत्र No 611 कोशे ‘प्रस्तारपङक्तिश्चतुर्थी । पञ्चमोषध्या' इत्यधिकग्रन्थदर्शनात्स लुप्तोऽत्र लेखकप्रमादिति ज्ञायते ॥ परमात्मा इत्यत्र लुप्तमिति भाति.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com