________________
674
DESCRİPTİVE CATALOGUE OF SANSKRIT MSS.
(ag:
तानि तेषां स्त्रजा माला यस्यास्ताम् । स्रक्साहचर्यात्पुष्पाणामित्येवमवगम्यते ॥
उपसंहारः
यष्टिकरां वेत्रहस्तामित्यर्थः [टि] लोपश्छान्दसः। तद्वतीं दण्डकारिणीम् । यष्टिं दण्डरूपां वा । सुवर्णा शोभनवर्णाम् । हेममालिनी हेमविकृतमणीशृङ्खलादिरूपावती (मालावती) सूर्यां सूर्यवत्प्रकाशमानां स (त) दूपां वा । स्थितमन्यत् । तां म -- नहम् ॥ इति द्वितीयया चि (व्याख्यातम् । प्रभूतं भूयिष्ठं गावः गाः, दास्यः परिचारिकाः। उभयत्र शसर्थे योजिनीया (जस्, इया)विशेषः । अस्य सूक्तस्य स्वरनियमो वैयाकरणवैदिकविशिष्टसंप्रदायात् ज्ञेयः ॥
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । प्रमा (पुम)श्चितुरो देयाद्विद्यातीर्थमहेश्वरः ॥
॥ श्रीसूक्तभाष्यं समाप्तम् ॥
आनन्दः कर्दमश्चेति चिक्लीत इति विश्रुताः।
ऋषयस्ते श्रियः पुत्राः श्रीः स्वयं चैव देवता ॥ अनुष्टुप्छन्दः । चतुर्थी प्रस्तारपती । उत्तरे त्रिष्टुभाविति । श्रौते काम्येष्टयादौ वैदिकेऽपि विनियोगः । स्मार्तेषु शौनको विष्णुपूजां पुरुषसूक्तेनाभिधाय
एवमेव श्रियं देवीं श्रीसूक्तेनार्चयेदुधः। इति । काम्ये त्वाश्वलायनः-काम्यकर्माण तावच्च कुर्या
प्रतिपाद्यीवषयः
अलक्ष्मीनिराकरणसंपदवाप्तिलक्ष्मीप्रसादकामकर्तव्यजपहोमपारायणादिषूपयुक्तेऽस्मिन् पञ्चदशर्चात्मके सूक्ते परिदृश्यमानाः श्रियः स्वरूपशक्तिमाहात्म्यादिप्रतिपादका मन्त्रा ललितयैव वाक्यशैल्याऽत्र भाष्ये विवृता दृश्यन्ते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com