SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ मत्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 667 व्याख्यास्यामः । अत्र हि एकादशानुवाकाः तत्राद्ये भगवतः प्रसादनम् । द्वितीयादिष्वष्टसु सर्वेश्वरत्वसर्वात्मकत्वसर्वान्तर्यामिरूपेण भगवन्तं(तो) नमस्कारः, ततो दशमे भगवतः प्रार्थना, एकादशे भगवदंशरुद्रसङ्घप्रार्थनेत्येकादशानुवाकात्मकश्रीरुद्राध्यायार्थः ॥ तत्र तावन्निजपापकुपितमीश्वरं प्रसादयितुं नमस्करोति-नमस्ते रुद्रेति । हे रुद्र प्रणतदुःखद्रावक ते तव मन्यवे क्रोधाय नमोऽस्तु । न च निरस्तसमस्तदोषे निखिलकल्याणसमुद्रे च भगवति कथं क्रोधप्रसक्तिरिति वाच्यम् । दुष्टनिग्रहशिष्टानुग्रहस्वभावे निग्राह्यविषयक्रोधस्यालङ्कारत्वेनादोषत्वात् ॥ उपसंहारः __ अत्र नमो रुद्रेभ्य इत्यादि समाप्तयन्तं यजुस्त्रयमेको मन्त्रः । अस्य देवलऋषिः श्रीरुद्रो देवता। ध्यानं तु सहस्राणि सहस्रश इत्यत्रोक्तमेव ग्राह्यम् । अन्नसमृद्धिप्रदोऽयं मन्त्रः। पुरश्चरणप्रकारः कृत्योत्पादनजातिस्मरत्वादिफलभेदाश्च रुद्रकल्पार्णवादिषु प्रपञ्चिता द्रष्टव्याः ॥ इति श्रीमत्परमहंसपरिवाजकसार्वभौमश्रीमदद्वैतविद्याप्रतिष्ठाभिनवशङ्कराचार्यसर्वतन्त्रश्रीरामब्रह्मानन्दभगवत्पूज्यपादानन्दशिष्येण श्रीवेइटानाथेन विरचिते यजुर्वेदोपनिषद्भाष्ये श्रीरुद्रोपनिषद्भाष्यं समाप्तम् ॥ प्रतिपायविषयः-- शान्तिकपौष्टिकादिषु काम्येष्वाभिचारिकेषु च कर्मसु तत्तदधिकारिभेदेन जपाभिषेकहोमेषु च विनियुक्तानां रुद्राध्यायान्तर्गतानां मन्त्राणां प्रतिमन्त्रं तत्तत्कर्मविधिफलनिरूपणपुरस्सरमर्थः सम्यगत्र प्रदर्शितः॥ वक्तव्यविशषःअमुद्रितोऽयं कोशः॥ No. 605 (2669). * श्रीरुद्रप्रश्नभाष्यं रुद्रामृततरङ्गिण्याख्यम् . * Sri Rndraprasnabhāsyam, styled Rudrāmrtatarangini. Author-Subrahmanya. | Size-18X 11 inches. Substance-Palm-leaf. I Character--Andhra. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy