SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ मत्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 661 भस्मदिग्धशरीरस्तु भस्मशायी जितेन्द्रियः । सततं रुद्रजापी च परां मुक्तिमवाप्नुयात् ॥ उपसंहारः अत्रापरः प्रयोगस्तु दर्शे स्वाग्नौ हुतिर्भवेत् । द्रव्यं तु कापिलं सर्पिः सङ्ख्या त्वष्टसहस्रकम् ॥ अथर्वशिरसि प्रोक्तविधानेनार्चनं भवेत् । तत उत्पद्यते कृत्या रक्ताङ्गी रक्तमूर्धजा ॥ रकनेत्रा तया सर्व साधयेत्स्वात्मसम्मतम् । कर्मणोऽस्य समारम्भ अजारुधिरपूरितान् ॥ अथ यत्कलशांस्तत्र स्थापयित्वाऽतिसंशयः । तर्पयेदन्यथा नूनं नाशयेन्नैव संशयः ॥ भवेद्यस्सकलाशानकामनाशोऽयुताहुतीः । जुहुयात्सर्पिषा वह्नौ कलाशानं ततोभवेत् ॥ जातिस्मरणकामस्तु जुहुयादयुताहुतीः । पयसा कापिलेनैव कामाजातिस्मरो भवेत् ॥ ध्यानप्रकारस्तु सहस्राणि सहस्रश इत्यत्रोक्तो क्षेयः । ध्यानम् वृषाधिरूढं देवेशं सर्वलोकैककारणम् । ध्यायेद्ब्रह्मादिभिस्तुत्यं पार्वतीसहितं शिवम् ॥ जपमात्रेण सर्वसिद्धिर्भवति । त्रिषवणस्नायी जपित्वा पञ्चपातकात्पूतो भवति । इति नमकेषु नमो रुद्रेभ्य इत्यस्य प्रयोगः ॥ इति विद्यारण्यविरचिते यजुर्वेदभाष्ये नमके एकादशोऽनुवाकः ॥ प्रतिपाद्यविषयः अत्र विस्तरेण प्रत्यनुवाकं न्यासजपहोमादिप्रयोगप्रदर्शनपुरस्सरं श्रीरुद्रप्रश्नस्य एकादशानुवाकात्मकस्य श्रीरुद्रकोपशमनतन्नमस्कृतिप्रार्थनादिपरस्य विवरणं दृश्यते ॥ वक्कयविशेषः कर्मविपाकमहार्णवे संगृहीतं मुद्रितसायणीयरुद्रभाष्याद्विलक्षणं भभास्करीयभाष्यानुरोधि चेदं भाष्यं दृश्यते । अमुद्रितं चेदम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy