SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ 624 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. ari उपक्रमः मूलम्कं नश्चित्रमिषण्यसि चिकित्वान् पृथुग्मानं वानं वावृद्धथै । कत्तस्य दातु शवसो व्युष्टौ तक्षद्वजं वृत्रतुरमपिन्वत् ॥ व्याख्या रामायणगुमं नौमि रामरक्षानवाङ्करम् । गायत्रीबीजमानायमूलं मोक्षमहाफलम् ॥ अत्र रामरक्षाया रामायणगुमाङ्करत्वं स्पष्टमवगम्यते । तत्स्थान राघवादिपदानां कमेण रामायणार्थसूचकत्वात् । तस्या गायत्रीमूलत्वं वेदमूलत्वं चोपपादनीयम् । तेन रामायणस्यापि तदुभयं सिध्यति । अत एव रामायण चतुर्विंशतिगायत्र्यक्षराणि वाल्मीकिना संगृहीतानीत्यीभां युक्तप्रसिद्धिः॥ उपसंहारः__ मूलम्-नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा । स्वां प्रजां बृहदुक्थो महित्वाऽवरेष्वदधादा परेषु । व्याख्या -नावा न नौकया यथा क्षोदः महादुदः ? आक्रम्यते, एवं स्वस्तिभिः काल्याणैः पुष्पकादिभिः पृथिव्याः प्रदिशः प्रदेशानाक्रम्य स्वां प्रजां विश्वा सर्वाणि संकटानि अति पारयित्वा बृहदुक्थो महाकर्मा रामः महित्वा स्वमाहात्म्येन संततिरूपां प्रजां अवरेषु भूलोकेषु जनरूपां माहत्वा परेषु ब्रह्मलोकेषु च आदधात् । एतेन पौरजानपदानात्मलोकं प्रापयन् महाकारुणिको रामभद्र एव शरणीकरणीय इति दार्शतम् ॥ लक्ष्मणार्यपरतां नि(गि)रामिमां लक्ष्मणार्यपुरुषेण दर्शिताम् । साङ्गवेदपदवाक्यमानवित्कोऽपि वीक्ष्य सुमतिः प्रमोदताम् ॥ श्रीरामरक्षाव्याख्यानं मन्त्ररामायणाभिधम् । व्याख्यातं राघवस्तेन प्रीयतां करुणानिधिः ॥ दर्शिता(तः)सीतया ध्यायं? वेदारण्ये निरध्वनि । सन्तो विपुलयन्त्वेनं यास्कभाष्यानुयायिनः ॥ इति श्रीमत्पदवाक्यप्रमाणज्ञमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूारसूनोः श्रीनीलकण्ठस्य कृतौ स्वोद्धृतमन्त्ररामायणव्याख्या मन्त्ररहस्यप्रकाशिकाख्या समाप्तिमगमत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy