SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ GOVERNMENT ORIENTAL LIBRARY, MYSORE 33 उपक्रमः-- कमलाकुचकर्पूरकस्तूरीवासितोरसम् । संपूर्णचन्द्रसुभगं भजे नरहरि हरिम् ॥ कृपालुर्माधवाचार्यो वेदार्थ वकुमुद्यतः । ब्राह्मणं कल्पसूत्रे द्वे मीमांसां व्याकृति तथा । उदाहृत्याथ तैस्सर्वैर्मन्त्रार्थः स्पष्टमीर्यते ॥ कोऽयं वेदो नाम । के वाऽस्य विषयप्रयोजनसम्बन्धाधिकारिणः । कथं वा तस्य प्रामाण्यम् । न खल्वेतस्मिन् सर्वस्मिन्नसति वेदो व्याख्यानयोग्यो भवति । अत्रोच्यते उपसंहारः स्वार्थ यन्ति गच्छन्तोति स्वार्धतः, तेषां स्वार्थताम् । यतन्त इति यतः, तेषां यदा (यताम् ) मकरमासे प्रयागस्नानं केषांचित् स्वार्थः । तं प्राप्तुं प्रयतमानानां स्वनामानिर्गच्छतां मध्य यः कश्चिच्छ्रान्तो गन्तुमशक्तः सङ्कान्तिकालीनस्नानाद्धीयते सोऽपि निष्टयाय परेयुर्नि . . . प्रतिपाद्यविषयः कोशेऽस्मिन् परिदृश्यमाने प्रथमकाण्डद्वितीयप्रश्नासमौकादशा.. नुवाकान्ते सायणभाष्यग्रन्थभागे दर्शपूर्णमासाङ्गानां पर्वप्रतिपद्दिनकर्तव्यकर्माङ्गभूतानां च मन्त्राणां कतिचित्काम्येष्टियाज्यापुरोनुवाक्यानां सोमक्रयार्थमन्त्राणां च तत्रतत्र कल्पसूत्रोपन्यासपूर्वकं मीमांसान्यायसंचारपूर्वकं च पदार्थवाक्यार्थी साधु निरूप्यते ॥ वक्तव्यविशेषः-- एतद्भाष्यप्रणेतृसायणार्याग्रजमाधवार्यप्रणातधातुवृत्तौ भट्टभास्करनामोल्लेखदर्शनाक्वचित्क्वचित् भट्टभास्करभाष्यसमानानुपूर्व्या अत्रोपलम्भाञ्चायं सायणार्यों भट्टभास्करादर्वाचीन इति ज्ञायते । कोशेऽस्मिन् भाष्यमिदं प्रथमकाण्डे द्वितीयप्रश्ने असमग्रैकादशानुवाकान्तं परिदृश्यते ॥ D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy