________________
572
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
[an:
ऊनचन्द्रा पूर्णमासी। सरस्वती वाग्देवतां । छान्दसो गुणः । हे देव सवितः सर्वस्याप्यनुज्ञातः अस्मानपि प्रसुव अनुजानीहि । अथ वैश्वदेवमन्त्राः। तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या' इत्यादि । उपयोगः नियमपूर्वकं विद्याग्रहणम् । कर्तुरेव व्रतम् । केचित्पत्न्या अपि इच्छन्ति । 'अग्नये स्वाहा' यथा ओमित्यनुज्ञाक्षरं तथा स्वाहाकारः . . . . प्रदानार्थः । सोमाय स्वाहा । केविदिम मन्त्रं नाधीयन्ते (ते) । विश्वभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यः । धुवाय एकरूपाय वृद्धिक्षयरहिताय भूमाय भूम्ने ब्रह्मणे । “भूमा त्वेव विजिज्ञासस्व" इति छान्दोग्यम् । ध्रुवा निश्चला क्षितिर्गतिः यस्य कार्यवर्ग प्रति तस्मै ध्रुवक्षितये। तथा अच्युताक्षतये। अग्नये स्विष्टकृते । रुद्रोऽग्निस्स्विष्टकृत् स्विष्ट सुहुतं करोतीति । पूर्ववत्परिषेचनम् । अन्वमंस्थाः ! अनुज्ञातवती। प्रासावीः अनुज्ञातवान् ॥ अथ बलिहरणमन्त्राः
उपसंहारः
एतन्निबन्धना मे इन्द्रियादीनां वृद्धं माभृत् । ब्राह्मणामन्त्रणे सम्प्रतन्वानः अद्भिरात्मानं संसृजन् सुकृता सुष्ट कार्य करोतीति सुकृत् तेन ब्रह्मणा कृते । मया युक्तेन। अगारस्थूणावरोहणादिषु होममन्त्रा इमं मे वरुणात पञ्च गताः । अभिमृतेभ्यो दक्षिणतोऽश्मानं परािधं दधाति । इममश्मानं जीवेभ्यः जीवतां शरदः पुरूचीः बहूनि दिवसान् जीवतु ? मृत्युस्त्वनेन पर्वतेन अश्मना तिरोदधताम् तिरोहितं कुर्वन्तु ? ॥
॥ इत्येकाग्निकाण्डमन्त्रे द्वितीयप्रश्नव्याख्या समाप्ता ॥ प्रतिपाद्यविषयः
आपस्तम्बीयगृह्यसूत्रोक्तानां गृह्यकर्मणां अनुष्ठानकाले -सूत्रकारेण विनियुक्तानां एकाग्निकाण्डाम्नातानां मन्त्राणामर्थः सम्यक विशदीकृतोऽत्र दृश्यते ॥
वक्तव्यविशेषः
मुद्रितोऽयं ग्रन्थः, समनश्चात्र दृश्यते ॥ मुद्रितात्पाठवलक्षण्यमत्र क्वचिकचिद्दश्यते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com