________________
532
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
वेदः
No. 485 (B 508/1).
सीतोपनिषत् .
Sitopanisat. Substance-Paper.
Age of Ms.—Modern. Size-8x6 inches.
Condition of Ms.-Good. Character-Andhra.
Correct or incorrect-CorFolios-6.
rect. Lines on a page-11.
Complete or incompleteLetters in a line-18. J Complete.
उपक्रमः
ओं भद्रं कर्णेभिरिति शान्तिः ॥ देव ह वै प्रजापतिमब्रुवन् । का सीता, किंरूपमिति । स होवाच प्रजापतिः । सा सीता इति ॥
मूलप्रकृतिरूपत्वात्सा सीता प्रकृतिस्स्मृता । प्रणवप्रकृतिरूपत्वात्सा सीता प्रकृतिरुच्यते ॥ सीता त्रिवात्मा साक्षान्मायामया भवेत् । विष्णुः प्रपञ्च जं च माया ईकार उच्यते ॥ सकारस्सत्यममृतप्राप्तिः सोमश्च कीर्त्यते । तकारस्तारलक्ष्या च वैराजः प्रस्तरस्स्मृतः ॥ ईकाररूपिणी सोमा अमृतावयवा दिव्यालंकारस्रङ्मौक्तिकाद्या भरणालंकृता महामायाव्यक्तरूपिणी व्यक्ता भवतीति ॥ . उपसंहारः
अथातो वीरशक्तिश्चतुर्भुजाभयवरदपद्मधरा किरीटाभरणयुता सर्वदेवैः परिवृता कल्पतरुमूले चतुर्भिर्गजै रत्नघटैरमृतजलैरभिषिच्यमाना सर्वदैवतैः ब्रह्मादिभिर्वन्धमाना अणिमाद्यष्टैश्वर्ययुता सम्मुखे कामधेनुना स्तूयमाना वेदशास्त्रादिभिस्स्तूयमाना जयाद्यप्सरस्स्त्रीभिः परिचार्यमाणा आदित्यसोमाभ्यां दीपाभिः प्रकाश्यमाना तुम्बुरुनारदादिभिर्गीयमाना राकासिनीवालीभ्यां छन्त्रेण हादिनीमयाभ्यां चामरेण स्वाहास्वधाभ्यां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com