________________
GTIQT] GOVERNMENT ORIENTAL LIBRARY, VYSORE
531
भरद्वाज शृणु नापक्कचित्ता विदन्ति साम्वं सर्वदेवप्रकृष्टम् । शिवं वरेण्यं पक्कचित्ताः शिवस्य प्रसादतो जातमात्राद्विदन्ति । विश्वाधिकं शङ्करं ये प्रमूढा होनं (हीनं) विष्णोर्बह्मणो वा विदन्ति । न संसारत् प्रच्यवन्ते (मुच्यन्ते) कदाचित् शतैः कल्पैः कोटिभि
यंत्र (त्त) दोषाः ॥ उपसंहारः
सिद्धान्तोऽयं निश्चितोऽस्माभिरेष भरद्वाज गुह्यमेतन्न वाच्यम् । सदाऽप्रशान्ताय च नास्तिकाय परीक्षकाय ब्रूहि सर्वार्थवेत्ते ।
इत्याह भगवान् स्कन्दः । तामेनां सिद्धान्तशिखां योऽधीते प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सार्वकालं प्रयानः पापोऽपापो भवतीति 2 विज्ञायत इति वेदवचनं भवति भवति । ओं, शं नो मित्रश्शं वरुणः । शं नो भवत्वर्यमा ॥
॥ इति सिद्धान्तशिखोपनिषत्समाप्ता ॥
प्रतिपाद्यविषयः
अत्र शिवदीक्षाधिकारिनिरूपणपूर्वकं शिवनाममहिमानमुपवर्ण्य सद्योजातवामदेवाघोरतत्पुरुषेशानाख्यशिवस्वरूपेभ्यः ब्रह्मक्षत्रविट्छद्रादीनां उत्पत्तिवर्णनपूर्वकं लिङ्गधारकस्य महिमानं निरूप्य लिङ्गभस्मरुद्राक्षधारणस्थानमहिमादिकमुक्ता शैवपञ्चाक्षरीमन्त्रयोदेववतादिनिरूपणपूर्वकं तन्मन्त्रोपासनाक्रमादिकमभिधाय शिवपूजामाहात्म्यमुपवर्ण्य एतत्पाठकफलं चान्तेऽभिहितं दृश्यते ॥
वक्तव्याविशेषः
अस्मिन् कोशे इयमुपनिषत्समग्रा दृश्यते । कृष्णयजुश्शाखान्तर्गतेयमिति मुद्रिता च ॥
1 गुह्य एव तन्न वाच्यः सदा पतितायाप्रशान्ताय च नास्तिकायापरीक्षिताय ' इति मुद्रितकोशे पाठः. 2 'विज्ञायत इति' इति मुदितकोशे न दृश्यते.
D.C.I.
31*
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com