SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 507 उपक्रमः हरिः ओम् । अथातः पृथिव्यादिमहाभूतानां समवायं शरीरं यत्कठिनं सा पृथिवी यद्रवं तदापो यदुष्णं तत्तेजः यत्सञ्चरति स वायुः यत्सुषिरं तदाकाशं श्रोत्रादीनि ज्ञानेन्द्रियाणि श्रोत्रमाकाशे वायौ त्वग्नौ चक्षुरप्सु जिह्वा पृथिव्यां घ्राणमवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाश्चैते विषयाः पृथिव्यादिमहाभूतेषु क्रमेणो त्पन्नाः ॥ उपसंहारः मनोबुद्धिरहंकारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराष्षोडशापरे ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् । पायूपस्थं करौ पादौ वाक्चैव दशमी मता ॥ शब्दस्स्पर्शश्च रूपं च रसो गन्धस्तथैव च । त्रयोविंशतिरेतानि चत्वारि प्राकृतानि तु ॥ चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः ॥ इति ॥ इति शारीरोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अत्र शरीरस्य पञ्चभूतात्मकत्वमुपवर्ण्य तत्रस्थानां ज्ञानकर्मेन्द्रि याणां दशानां स्वरूपं विषयांश्चाभिधाय अन्तःकरणस्य मनोबुद्धधादिभेदेन चातुर्विध्यं प्रदर्श्य तद्विषयस्थानानि निर्दिश्य शरीरगतचर्मादिपृथिव्यंशान्निरूप्य सात्विकादिगुणानुक्ता जाग्रदादिचतुर्विधावस्थाः तत्स्वरूपं च प्रकाश्य सूक्ष्मशरीरस्वरूपं संगृह्य मनोबुद्धयाarisvy प्रकृतयः श्रोत्रादयष्षोडश तद्विकाराः पुरुषः पर इत्याहत्य पड् विंशतितत्वान्यपि परिगणितानि दृश्यन्ते || वक्तव्य विशेषः - अस्मिन् कोशे इयमुपनिषत् समग्रा कृष्णयजुश्शाखीयेति मुद्रिता च दृश्यते । कोशेऽस्मिन्नुपनिषदादौ शान्तिमन्त्रो न दृश्यते । अस्या उपनिषदः कोशान्तरे शारीरकनानाऽपि व्यवहारो दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy