________________
468
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
Daa::
सर्वसिद्धिकरं मार्ग मायाजालनिकृन्तनम् । जन्ममृत्युजराव्याधिनाशनं सुखदं वद ॥ इति हिरण्यगर्भः पप्रच्छ । स होवाच महेश्वरःनानामागैस्तु दुष्प्रापं कैवल्यं परमं पदम् । सिद्धिमार्गेण लभते नान्यथा पद्मसम्भव ॥ पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ।
स्वात्मप्रकाशरूपं तत् किं शास्त्रेण प्रकाश्यते ॥ उपसंहारः
यथाऽग्निरुमध्यस्थो नोत्तिष्ठन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि ॥ घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते । भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते ॥ स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् । गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते ॥ कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम् । अभ्यासवासनाशक्तया तरन्ति भवसागरम् ॥ इत्युपनिषत् । षष्ठोऽध्यायः । सह नाववात्विति शान्तिः ॥
॥ योगशिखोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः -
षडध्यायीपरिमितायामस्यामुपनिषदि प्रथमेऽध्याये-योगज्ञानयोरुभयोरपि समुच्चितयोर्मोक्षसाधनत्वमुपवर्ण्य योगिनो योगस्य च महिमानं प्रकाश्य कुण्डलिनीचालनक्रमं प्रतिपाद्य सूर्यभेदाख्ययोगप्रकारमुक्ता मूलादिबन्धत्रयस्वरूपं प्रकाश्य बहुधाऽन्ये च योगाभ्यासक्रमा निरूपिताः ॥
द्वितीयेऽध्याये--मूलमन्त्रमहिमानमुपवर्ण्य स्थूलसूक्ष्मपररूपं ब्रह्मणस्त्रिविधं वपुर्निरूप्य तत्प्रकाशकोपाया अणिमादिसिद्धिप्रकाराश्च निरू. पिताः ॥
तृतीयेऽध्याये-नादाख्यशब्दब्रह्मणो महिमाऽनुवार्णतः ॥ तुरीयेऽध्याये-प्रपञ्चस्य ब्रह्मात्मकत्वं प्रकाशितम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com