________________
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
उपसंहारः__एतौ वै महिमानावश्वमभितस्संबभूवतुर्हयो देवानवहदर्वाऽसुरान् वाजी गन्धर्वानश्वो मनुष्यान् समुद्रो वा अश्वस्य योनिस्समुद्रो बन्धुः ॥ हरिः ओम् ॥ प्रतिपाद्यविषयःअत्र च संहितायां सप्त काण्डानि-तत्र प्रथमे ८ प्रपाठकाः-- तत्र प्रथमे- दर्शपूर्णमासेटिमन्त्राः तद्विकृतिमन्त्राश्च सन्ति । द्वितीये-प्राधान्येन सोमक्रयः प्रतिपाद्यते । हविर्धानमण्डपनिर्माणपर्यन्तकर्माणि च प्रतिपाद्यन्ते । तृतीये-अग्नीषोमीयपशुः प्राधान्येनोच्यते, अन्ये अभ्रयनुमन्त्रणादयश्चोच्यन्ते । तुरीये-सुत्यादिनकर्तव्यग्रहाणां प्राधान्येनोक्तिः, ग्रावाभिमन्त्रणादीनि चोच्यन्ते । पञ्चमे-पुनराधानं तदङ्गानि च प्रतिपाद्यन्ते । षष्ठे-ऐष्टिकयाजमानमन्त्राः तद्राह्मणानि च सन्ति । सममेयाजमानमन्त्रव्राह्मणशेषः, वाजपेयमन्त्राः, याज्यापुरोनुवाक्याश्च
सन्ति । अष्टमे--राजसूययागोऽभिधीयते ॥ द्वितीयकाण्डे ६ प्रपाठकाः
तत्र प्रथमे-अवान्तरप्रकृतेरग्नीषोमीयपशोर्विकृतिरुच्यते । वायव्यादयश्च काम्याः पशव उच्यन्ते । द्वितीये-प्रजाकामादीन् प्रति ऐन्द्राग्नादिकाम्येष्टयः, पाथिकृतादिदर्शाद्यतिक्रमानिमित्त - केष्टिः, कामुकादीष्टिः, अन्नकामादीष्टिः, अभिशस्तादिकर्तव्येष्टिः, आदित्य वर्वादीष्टिः, ऐन्द्रचर्वादोषिः, अनृज्वादीष्टिः, आभिचारिकेटिः, सोमारौद्रचर्वादीष्टिः, ऐन्द्रादीष्टिः, काम्ययाज्यापुरोनुवाक्यामन्त्राश्चोच्यन्ते । तृतीये-भूत्यादितत्तत्फलकामकर्तव्येश्यः प्रतिपाद्यन्ते । तुरीये-त्रिहविष्कादीष्टयो विधी. यन्ते । पञ्चमे -अग्नीषोमीयहविरादयो विधीयन्ते । षष्ठे-प्रया
जादिकर्माण्यभिधीयन्ते ॥ तृतीयकाण्डे ५ प्रपाठकाः । सोमशेषवर्णनमस्मिन् काण्डे
तत्र प्रथमे-दीक्षादिबहिष्पवमानान्तानि कर्माणि । द्वितीये -प्रतिनिग्राह्यपर्यन्ताः पवमानग्रहादयः । तृतीये-वैकृतविधयः। तत्त.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com