________________
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
उपसंहारः
सर्वस्य धातारमचिन्त्यशक्तिं सर्वागमान्तार्थविशेपवेद्यम् । परात्परं परमं वेदितव्यं सर्वावसाने सकृद्वेदितव्यम् ॥ कविं पुराणं पुरुषोत्तमोत्तमं सर्वेश्वरं सर्वदेवैरुपास्यम् । अनादिमध्यान्तमनन्तमव्ययं शिवाच्युताम्भोरुहगर्भभूधरम् ॥ स्वेनावृतं सर्वमिदं प्रपञ्च पञ्चात्मकं पञ्चसु वर्तमानम् । पञ्चीकृतानन्तभवप्रपञ्च पञ्चीकृतस्वावयवैरसंवृतम् ॥
परात्परं यन्महतो महान्तं स्वरूपतेजोमयशाश्वतं शिवम् ॥ प्रतिपाद्यविषयः
नारदपितामहप्रश्नोत्तरात्मिकायां उपदेशाख्यप्रकरणनवकयुतायामस्यामुपनिषदि प्रथमोपदेशे - मोक्षौपयिकोपनयनाद्यीखलसंस्काराभिधानपूर्वकं संन्यासोचितस्वरूपं संगृह्यते ॥
द्वितीयोपदेशे--नारदस्य पितामहात्पूर्वोक्तार्थाधिगमप्रकारो निरू प्यते ॥
तृतीयोपदेशे-संन्यासाधिकारिणः संन्यासविधिराभिधीयते ॥ __ तुरीयोपदेशे-संन्यासाङ्गभूताः शान्तिदान्त्यादयो धर्माः प्रतिपा द्यन्ते ॥
पञ्चमोपदेशे--संन्यासतदाचारभेदा निरूप्यन्ते ॥
षष्ठोपदेशे-भ्रमरकीटन्यायेन स्वरूपाभ्यास जाग्रदाद्यवस्थाभेदानां वर्णाश्रमलक्षणानां च निरूपणं दृश्यते ॥
सप्तमोपदेशे--यतीनां नियमा निरूप्यन्ते ॥ अष्टमोपदेशे-संसारोत्तारकब्रह्मप्रणवाद्यभिधानं दृश्यते ॥
नवमोपदेशे–ब्रह्मस्वरूपपरिज्ञानवतो विष्णुपदावाप्तिप्रकारो निरू प्यते ॥
वक्तव्यविशेषः
कोशेऽस्मिन्नियमुपनिषत्समग्रा दृश्यते । अथर्वशाखीयेतीय मुद्रिता च । मुद्रितकोशे नवमोपदेशान्ते इतोऽप्यधिकः कश्चन ग्रन्थभागो दृश्यते । इयं चोपनिषत परिव्राजकाभरणनानाऽपि व्यवहृता ज्ञायते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com