________________
उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE
वक्तव्यविशेष:
तैत्तिरीयशाखायां याजुष्यामुपनिषत्काण्डमिदम् । तत्रोपनिषन्नाम परप्राप्तिहेतुर्विद्या । तत्प्रतिपादकग्रन्थभागोऽप्युपनिषत्पदेन व्यवह्नियते । तत्रास्मिन् औपनिषदे काण्डे सांहिती वारुणी याज्ञिकी चेति तिस्र उपनिषदो दृश्यन्ते । आधिलौकिक्यादिपञ्च महासंहिताभावनाप्रधाना आदितो द्वादशानुवाकाः साहित्युपनिषदित्युच्यते । ततस्त्रयोऽनुवाका वरुणनामकऋषिणा स्वात्मजं प्रत्युपदिष्टत्वाद्वारुण्य पनिषदित्युच्यते । ततः समस्त अन्तिमः प्रश्नो यज्ञनाम्ना भगवता नारायणेनैवोपदिष्टत्वात्तत्प्राप्त्युपायप्रतिपादकत्वाच्च याज्ञिक्युपनिषदित्युच्यते । इदं चौपनिषदं काण्डं द्राविडान्ध्रपाठभेदेन तत्र तत्र विभिन्नपाठं दृश्यते । अन्तिमप्रश्ने भूयान् पाठभेदः परिदृश्यते । द्राविडपाठानुरोधिसायणार्य भाष्यपर्यालोचनायां कर्णाटपाठ इत्यप्यपरः पाठः, तत्रापि पाठभेद इति ज्ञायते । स च पाठोऽद्य नोपलभ्यते । वेदैकदेशेऽप्यस्मिनयं पाठभेदः किमर्थ प्रवृत्त इति परिचिन्तनीयम् । तत्र द्राविडपाठे काण्डमिदं शिक्षानन्दभृगुवल्लीनामेकप्रश्नतया नारायणानुवाकस्य चान्यप्रश्नतया प्रश्नद्वयेन विभक्तं दृश्यते । आन्ध्रपाठे तु प्रतिवल्लयेकैकप्रश्नतया प्रश्नचतुष्टयेन विभक्तं दृश्यते । कोशेऽस्मिन्निदमौपनिषदं काण्डं द्राविडपाठानुरोधि समग्र दृश्यते, मुद्रितं च ॥
No. 295 (4380/2). तैत्तिरीयोपनिषत् .
Taittiriyopaniṣat.
Substance-Palm-leaf. Size—14 × 14 inches. Character—Nágari.
Folios-43 - 71.
Lines on a page-5. Letters in a line-66.
D.C.M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
323
Age of Ms.—Old.
Condition of Ms. - Good.
Correct or incorrect-Correct.
Complete or incomplete - Complete.
21*
www.umaragyanbhandar.com