SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 307 उपक्रमः हारः ओं। अथ नित्यानवद्या सच्चिदानन्दमयी माता लोकानां लक्ष्मीः नारायणं परिपृच्छति । भगवन् देवदेवेश सर्वादिसर्वमध्यान्त नारायण जगन्मय प्रसीद मे स्वामिन् । प्रवित्राणां पवित्रेणापि त्वया इदं धार्यते चक्र सुदर्शनम् , येन मामङ्कयित्वा पूतां हृदि वहसि । किं तत्स्वरूपं किंप्रभावं, यदि मे योग्यता श्रोतुं तन्मे ब्रूहीति ॥ उपसंहारः यथा मुद्रां विना राज्ञः पदं वेष्टुं न शक्यते । तथा मुद्रां विना मेऽस्य वैकुण्ठो दुष्प्रवेशनः ॥ तस्मात् द्विजादिवर्णैः सर्वाश्रमिभिश्च तप्तचक्रं धार्य सालोक्यसारूप्यसामीप्यसायुज्यकाक्षिभिः । यो द्विजः तप्तचक्रं धारयति स सर्वकर्मण्यः पवित्रो भवति, यतश्चक्रं पवित्रम् । न स भयभाग्भवति । यो धारयति स हि पाप्मानं तरति स मृत्युं तरति वै विशति वैकुण्ठलोकं मत्सायुज्यमाप्नोति न च पुनरावर्तते न च पुनरावर्तत इति य एवं वेद । इत्युपनिषत् ॥ ॥ इति चक्रोपनिषत् समाता ॥ प्रतिपाद्यविषयः लक्ष्मीनारायणप्रश्नोत्तररूपायामस्यामुपनिषदि चक्रमाहात्म्यवर्णनपूर्वकं ततस्य तस्य चक्रस्य भुजे धारणावश्यकत्वं प्रतिपाद्य तदङ्कितविषये यमभटानां पराक्रमाभावमुपवर्ण्य तदाङ्कतस्य वैष्णवपदावाप्तियोग्यत्वादिकमभिधीयते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रोपलभ्यते । अमुद्रिता चेयमुपनिषत् । आद्यन्तयोः तत्तदुपनिषदादौ परिदृश्यमानः शान्तिमन्त्रपाठोऽत्र न दृश्यते ॥ D.C.M. 20* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy