SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ GOVERNMENT ORIENTAL LIBRARY, MYSORE उपसंहारः उपनिषदं भो बृहीत्युक्ता [त उपनिषद्राह्मीं वावं त उपनिषदमबूमेति । तस्यै तपो दमः कर्मेति प्रतिष्ठा वदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामेव वेदापहत्य पाप्मानमनन्ते स्वर्ग लोके ज्येये प्रतितिष्टति प्रतितिष्ठति ॥ ॥ इति केनोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः खण्डचतुष्टयेन विभक्तायामस्यां केनोपनिषदि प्रथमखण्डे-मन:प्रभृतिकरणप्रवृत्तश्चतनायत्तत्वेन तत्प्रवर्तकचेतनविशेषस्य परब्रह्मत्वमित्यभिधीयते । द्वितीयखण्डे-ब्रह्मणोऽपारच्छिन्नत्वात्तस्य कात्स्येन विज्ञातुमशक्यत्वेऽपि योग्यैकदेशज्ञानादेवेष्टावाप्तिरित्यभिधीयते ॥ ___ तृतीयखण्डे-परं ब्रह्म कात्स्येन ज्ञातुमशक्यमित्यस्मिन्नर्थे ब्रह्मानुप्रवेशलब्धासुरविजयानां स्वेषामेव जेतृत्वाभिमानवतां देवानां गर्वापनोदनमुखेन स्वमाहात्म्यं यक्षरूपधरेण ब्रह्मणा प्रकाशितमित्याख्यायिकाsभिधीयते ॥ चतुर्थखण्डे- यक्षरूपधरे ब्रह्मणि देवानामुपदेशाय हैमवती देवीमाकाशेऽवस्थाप्य अन्तर्हिते सति तया देव्या इन्द्रः तस्माच्चान्येऽपि अधिदैवताध्यात्मरूपमुपास्यब्रह्मणो रूपमजानान्नित्येतदुपनिषदर्थज्ञानिनः फला भिधानपूर्वकमुपदिष्टं दृश्यते ॥ वक्तव्यविशेषः सामशाखीयजैमिनीयोपनिषदाह्मणे तुरीयाध्याये दशमानुवाकरूपेयमुपनिषत्परिदृश्यते, मुद्रिता च।श्रीशंकराचार्यप्रणीतकेनोपनिषद्भाष्यारम्भे तु केनषितामत्याद्युपनिषत्परब्रह्मविषया वक्तव्येति नवमाध्यायः स्यारम्भः' इत्यवतारिकादर्शनादियमुपनिषत्रवमाध्यायरूपति ज्ञायते ॥ D.C.M. 18* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy