SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 262 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Caz: वहूनामेमि प्रथमो बहूनामेमि मध्यमः । कि स्विद्यमस्य कर्तव्यं यन्मयाऽद्य कारष्यति ॥ अनुपश्य यथा पूर्व प्रतिपश्य तथा परे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ उपसंहारः यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मोऽमृता भवत्येतावदनुशासनम् ॥ शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्धमायनमृतत्वमेति विष्वकन्या उत्क्रमणे भवन्ति । अङ्गष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदयं सन्निविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुजादिवैषीकां धैर्येण ॥ तं विद्याच्छुक्रममृतं तं बिद्याच्छुक्रममृतमिति ॥ मृत्युप्रोक्तां नचिकतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्म प्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥ सह नाववत्विति शान्तिः ॥ ॥ इति कठवल्लयुपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः-- नचिकेतोमृत्युसंवादरूपायामस्यामुपनिषदि प्रत्यकं वल्लीत्रितययुः तेऽध्यायद्वितये सर्वमेधाख्ये यज्ञे दत्तसर्वस्वदक्षिणस्य वाजश्रवसनानो महर्षेः पुत्रेण नचिकेतोनाम्ना निजनिबन्धादेव पित्रा मृत्यवे प्रदत्तेन मृत्युलोकमधिगत्य तिस्रो रात्रीरुपोषितवता मृत्युप्रसादादेव निजपितुः शान्तचित्तत्वं नचिकेता इति स्वनामधेयोपेतस्याग्नेब्रह्मविद्याङ्गतया विज्ञानं विस्तरान्मृत्युनैवोपदिष्टं प्रत्यगात्मपरमात्मनोः स्वरूपज्ञानं चेत्येतद्वरत्रितयं पुत्रपौत्रचिरायुस्संपत्त्यादिकं प्रत्याचक्षाणेन समाधिगतमिति प्रति. पाद्यते ॥ वक्तव्यविशेषः यजुश्शाखीययमुपनिषन्मुद्रिता: कोशेऽस्मिन् समग्रा च दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy