________________
GOVERNMENT ORIENTAL LIBRARY, MYSORE
उपसंहारः
जीवन्मुक्तश्च भवति । देहान्ते तमसः परं धाम प्राप्नुयात् । यत्रं विराट् नृसिंहोऽवभासते, तत्र खलूपासते । तत्स्वरूपध्यानपरा मुनय आकल्पान्त तस्मिन्नेवात्मनि निलीयन्ते । न च पुनरावर्तन्ते। न चेमां विद्यामश्रद्दधानाय चूयात् । नासूयावते । ना[न नूचानाय । नाविष्णुभक्ताय । नानृतिने । नातपसे । नाशान्ताय । नादान्ताय । नादीक्षिताय । नाधर्मशीलाय । ना(न)हिंसकाय । नाब्रह्मचारिणे । इत्येषोपनिषत् ॥ आप्यायन्त्विति शान्तिः ॥
॥ अव्यक्तनृसिंहोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः
अत्राव्यक्ताख्यात्परमात्मनो रक्तहरितरूपतया द्वैधीभावमुपगताब्रह्माण्डोत्पत्तिमभिवर्ण्य तस्मात्परमेष्ठिनो व्यक्ति प्रकाश्य ततश्चाकाशवाण्या चीर्णतपसस्समुपलब्धनृसिंहानुष्टभगतपदपादाक्षरर्व्यक्ताख्यस्य जगतस्सृष्टिक्रमश्च तन्मन्त्रस्वरूपमहिमादिप्रशंसनसहितं प्रतिपाद्यत ॥
वक्तव्यावशेषः-- __एतत्कोशान्ते दृश्यमानलखादस्या उपनिषदः अव्यक्तनृसिंहोपनिपदिति च नामान्तरं दृश्यते । सामवेदीयेति इयमुपनिषन्मुद्रिता समग्रा चास्मिन् कोशे दृश्यते ॥
No. 214 (B 418/1).
अव्यक्तोपनिषत् .
Avyaktopanisat. Substance--Paper.. Age of Ms.-~-Modern. Size-8x6 inches.
Condition of Ms.-Good. Character-Andhra. Folios-7.
Correct or incorrect-Correct. Lines on a page-12. Complete or incompleteLetters in a line.-16.. ___Complete. D.C.M.
16
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com