________________
224
DESCRIPTIVE CATALOGUE OF SANSKRIT Mss.
(az:
दृष्टा रम्यमरम्यं वा स्थेयं पाषाणवत्समम् । एतावताऽऽत्मयत्नेन जि तो(ता)भवति संसृतिः ॥ वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वै पुनः । अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् ॥ स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् ॥ इत्युपनिषत् ॥ चतुर्थोऽध्यायः ॥ भद्रं कर्णेभिरिति शान्तिः ॥
॥ अन्नपूर्णोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः
___ अत्र ऋभुनिदाघसंवादेन ब्रह्मविद्या विचारता।ब्रह्मविद्याप्रतिबन्धकनिवृत्त्यर्थ अन्नपूर्णामन्त्र उपदिष्टः । पञ्चविधभेदभ्रमः तनिवृत्त्युपायश्च निर्णीतः । बन्धमोक्षप्रकारः कथितः । मुक्तयुपायभूतमात्मज्ञानं श्रुतियु-. तयनुभवैः विस्तरेण प्रतिपदितम् । विदेहमुक्तिस्वरूपं विशदीकृतम् । सप्तभूमिकाप्रदर्शन चान्ते कृतं दृश्यते ॥ .
वक्तव्यविशेषः___ ग्रन्थलिप्यां अध्यायपञ्चकेन मुद्रितैवेयमुपनिषदत्र काशे अध्यायचतुष्टयात्मिका उपलभ्यते ॥
No. 195 (B 414).
अन्नपूर्णोपनिषत्.
Annapūrnopanișat. Substance-Paper.
Age of Ms.-Modern. Size-8x6 inches.
Condition of Ms.—Good. Character-Andhra. Folios-28.
Correct or incorrect-Correct. Lines on a page--13. Complete or incomplete-. Letters in a line-16. __Complete.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com