SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 208 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. CE: नमः । ओं सत्त्वाय नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय । विष्णो,(उष्णो) भगवान् शुचिरूपः । हंसो भगवान् शुचिरूपः प्रतिरूपः । एवं चाक्षुष्मतीविद्यया स्तुतस्सूर्यनारायणः सुप्रीतोऽब्रवीत् ॥ विश्वरूपं घृणिनं जातवेदसं हीमनामयं ज्योतिरूपं तपन्तम् । सहस्ररश्मिश्शतधा वर्तमानः पुरुषः प्रजानामुदयत्येष सूर्यः ॥ नमो भगवते श्रीसूर्यायादित्याय अक्षितेजसे हो वाहिनी वाहिनी वा स्वाहेति । चाक्षुष्मतीविद्या ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुलेऽन्धो भवति । अष्टौ ब्राह्मणान् ग्राहीयत्वाऽथ विद्यासिद्धिर्भवति । य एवं वेद स महान् भवति ॥ उपसंहारः ओंकारमात्रमखिलं विश्वप्रज्ञादिलक्षणम् । वाच्यवाचकताभेदात् भेदनानुपलब्धितः ॥ अकारमात्रं विश्वस्स्यादुकारस्तैजसः स्मृतः। प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ॥ समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः। स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥ चिदात्माऽहं नित्यशुद्धबुद्धमुक्तसदद्वयः । परमानन्दसन्दोहो वासुदेवोऽहमोमिति ॥ आदिमध्यावसानेषु दुःखं सर्वमिदं यतः । तस्मात्सर्व परित्यज्य तत्त्वनिष्ठो भवानघ ॥ अविद्यातिमिरातीतं सर्वाभासाविवर्जितम् । आनन्दममलं शुद्धं मनोवाचामगोचरम् ॥ प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् । इत्युपनिषत् ॥ अक्षिकोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अस्यामुपनिषदि आदित्यलोकं गतेन सूर्यनारायणदैवत्यया चाक्षु. धपत्याख्यया विद्यया स्तुवता केन चित्सांकृतिनाना समधिगतो ब्रह्मोपासनाक्रमः समारूढसप्तयोगभूमिकस्य योगिनो विस्तरेण लक्षणाभिधानपूर्वकमाभिधीयते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy