________________
154 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदःनमो वैश्रवणाय च । उपजायत शर्वदत्ताद्गार्याच्छदत्तो गायों रुद्रभूतेाह्यायणादुद्रभूतिाह्यायणस्त्रातादेषुमतात् ॥ उपसंहारः
सुमन्तुजैमिनिविश्वामित्रवसिष्ठपराशरजालन्तुबहवगौतमशाकल्य - बाभ्रव्यमाण्डव्यबडबाप्रातिथेयी ये चान्ये आचार्यास्तेभ्यश्च स्वधेति ॥
॥ वंशब्राह्मणं समाप्तम् ॥ प्रतिपाद्यविषयः___ वंशब्राह्मणेऽस्मिन् सामवेदाध्येतृणां प्रवृत्तिरुच्युत्पादनाय राधनामकमहर्षिपर्यन्तं सामवेदसम्प्रदायप्रवर्तकाचार्यपरंपराद्वैविध्यं ततश्च ब्रह्मपर्यन्तं प्रदर्शितपरंपराया ऐकरूप्यं च प्रदर्य तत्तदृषिनामानि निर्दिश्यन्ते। विद्यावंशप्रकाशनपरत्वादेव चास्य वंशव्राह्मणमिति नामधेयं समजायतेति मन्यामहे ॥ वक्तव्यविशेषः
कोशेऽस्मिन्निदं ब्राह्मणं समग्रं दृश्यते । श्रीसत्यव्रतसामश्रमिभिरेतब्राह्मणसायणभाष्योपोद्धाते ‘मन्त्रं वोपनिषत्ततः' इत्यत्र पुष्पिकां प्रक्षिप्य तत्र 'भवेदुपनिषत्ततः इत्यपि पाठः कचित् , स त्वसमीचीन इव प्रतिभाति मन्त्रस्याग्रहात्' इति टिप्पणी न्यवेशि । तत्र चास्माकं त्वेवं प्रतिभाति, मन्त्रस्य पार्थक्येनाभ्युपगमे 'अष्टौ हि ब्राह्मणग्रन्थाः' इति श्रीमत्सायणार्याक्तयसाङ्गत्यभिया षष्ठब्राह्मणस्य मन्त्रब्राह्मणमिति उपनिषदाह्मणमिति च नामधेययुगलमवश्यमूरीकरणीयम् । अत एव 'मन्त्रं वा' इति वाशब्दः प्रयुक्त उपपद्यते । ब्राह्मणान्तर इव उपनिषड्राह्मणे पूर्वभागरूपत्वं मन्त्राणामित्यभ्युपगमेन न मन्त्रासंग्रहो दोषः प्रसजति । अत एव षष्ठस्योपनिषद्राह्मणस्य मन्त्रविद्याभेदेन द्वैविध्यं
तत्रोपनिषदाख्यो यः षष्ठो ग्रन्थः स च द्विधा । मन्त्रपर्व च विद्येति . . . . . . . ॥
इत्यादिना सायणार्यैः स्पष्टमेवाभ्यधायीति भवेदुपनिषत्ततः' इत्यपि पाठस्समीचीन इति । कोशेऽस्मिन् मुद्रितकोशेऽनुपलभ्यमानः ऋषिदेवपितृतर्पणक्रमप्रदर्शनपरभागोऽपि वंशब्राह्मणघटकतया निर्दिष्टो दृश्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com