SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमःSubject in brief :--- In this manuscript there appears an entirely new commentary at the first and second Khandās of the First Prapāthaka. This commentary is obviously quite different from that of Sāyana. उपक्रमः प्रणिपत्य गुरूनाद्यान् वेदवेशार्थकोविदान् । यत्प्रसादेन जानन्ति प्रवक्तुं मादृशा अपि ॥ अहं यद्यपि शास्त्रार्थप्रमावाक्योक्तिविप्लवः । तथाऽप्याश्रयसौन्दर्याजनोऽमुष्मिन् प्रपश्यतु ॥ अदितेऽनुमन्यस्वेत्यादि यजुत्रयम् । पर्युक्षणे विनियोगः । अदित्यादिदेवताकम् । अदितिर्देवमाता । साऽपि सर्वत्र कर्मण्यनुज्ञां दास्यति । हे अदिते त्वं मामनुमन्यस्व अनुजानीहि गौतम कर्म कुर्वित्येवं ब्रूहि । त्वया ह्यनुज्ञातः कर्म कुर्वनिष्फलभाग्भगवतीति । अनुमतिर्नाम देवता सर्वकर्मणामनुमन्त्री । तया हनुमतानि कर्माणि क्रियमाणानि फलवन्ति भवन्ति । या पूर्वा(र्णा)पौर्णमासी साऽनुमतिरिति ब्राह्मणे पठितत्वात् कात्यायनवचनाच ॥ राकानुमतिसंज्ञां इं]तु पौर्णमासीद्वयं विदुः । राका सम्पूर्णचन्द्रा स्यात्का(क)लोनाऽनुमतिः स्मृता ॥ साऽपि पूर्ववदनुज्ञां दास्यति । हे अनुमते त्वं मा अनुमन्यस्व अनुजानीहीत्यर्थः । सरस्वती वाचोऽधिष्ठात्री देवता वा नदी वा । सरतेर्धातोः सरस्वती । सा पूर्ववदनुज्ञां दास्यति । हे सरस्वति त्वमपि मामनुमन्यस्व अनुजानीहीत्यर्थः। [अ] पठितमप्येतन्मन्त्रमध्ये यजुत्रयं गृह्यकारेणोक्तमित्युच्यते ॥ स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञः[इत्]सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥ यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तजुलति कर्हिचित् ॥ यत एवमतो देवसवितरित्यादेमन्त्रगणस्यार्थोऽभिधीयते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy