SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 149 अष्टौ हि ब्राह्मणग्रन्थाः प्रौढं ब्राह्मणमादिमम् । षडिशाख्यं द्वितीयं स्यात्ततस्सामविधिर्भवेत् ॥ आर्षेयं देवताध्यायो भवेदुपनिषत्ततः । संहितोपनिषद्वंशो ग्रन्था अष्टावुदीरिताः ॥ तत्रोपनिषदाख्यो यः षष्ठो ग्रन्थः स च द्विधा । मन्त्रपर्व च विद्येति विद्याङ्गत्वेन पर्वणः ॥ यथा वेदा(धा)दिमन्त्राणामस्ति विद्याङ्गता तथा । रहस्यत्वात्तु मन्त्राणां विद्यासन्निधिपाठ्यता ॥ असूत्रयत्स्पष्टमेतद्भगवान् वादरायणः । वेदा(धा)दीनामर्थभेदादिति . . . ह चिन्तन(न्त्य ते ॥ विद्या(वेधा)द्यर्थभेदा [दि]ति। अस्त्याधर्वणिकानामुपनिषदारम्भे मन्त्रसमानायः-'सर्व(शुक्र)प्रविध्य हृदयं प्रविध्य शिरोभिवृध्य त्रिराविवृते' इत्यादिः । ताण्डिनां-'देव सवितः प्रसुव यज्ञं' इत्यादि ॥ उपसंहार: इयं गौः रुद्राणामेकादशसंख्यानां माता निर्मात्री, तथा वसूनामष्टसंख्यानां दुहिता पुत्री, आदित्यानां द्वादशसंख्यानां स्वसा स्वसृस्थानीया, अमृतस्य यज्ञस्य स्वर्गस्य नाभिवदन्धिका आज्यक्षीरादिस्तोमसाधनद्रव्यस्योत्पादकत्वात् , चिकितुषे युक्तायुक्तपरिक्षात्रे, जनाय जात्येकवचनम्, जनेभ्यः अनुवोचं प्रावोचं प्राप्नुवम् । किमिति चेदुच्यतेअनागां अनपराधां गामुक्तरूपेण महानुभावां अदिति अदितिवद्देवादिसर्वमातृभूतां मा वधिष्ठ हे देवा हिंसां मा कुरुत । ओमित्यङ्गीकारे । अहन्तव्येत्यङ्गीकृता उत्सृजतु ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवतर्कश्री वीरबुक्कभूपालसाम्राज्यधुरन्धरेण सायणाचार्य (र्येण) विरचिते माधवीये वेदार्थप्रकाशे छन्दोगमन्त्रब्राह्मणे मन्त्रपर्वणि द्वितीयप्रपाठके सप्तमः खण्डः ॥ ॥द्वितीयप्रपाठकस्समाप्तः ॥ प्रतिपाद्यविषयः___ एतन्मूलभूते No. 124 कोशे प्रदर्शितानां सामवेदान्तर्गतकौथुमशोयगृहकर्मोपयोगिमन्त्राणां तत्रतत्र क्लिष्टशब्दव्युत्पत्तिप्रदर्शनपूर्वकमत्र सायणीयभाष्ये पदार्थवाक्यार्थी ललितयैव शैल्या प्रतिपाद्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy