________________
TEMI ] GOVERNMENT ORIENTAL LIBRARY, VYSORE 129 इत्यर्थं च वर्णयन्ति । तत्र ज्ञानयज्ञे शाकंस्योपयोगाभावात् एतद्भाष्यरूपज्ञानयज्ञस्य शाकसाध्यत्वाभिधानं नोपयुज्यत इति भाति ॥
किंच-कोशान्तरेषु तथा पाठोऽपि न दृश्यते । किंतु 'एष निष्पावकज्ञेन' 'एष निष्पावके शोके' इत्याद्यपादपाठौ दृश्यत । तत्र च यज्ञाचरणदशायां होमार्थं पावकस्यापेक्षितत्वेऽपीदृशभाष्यरूपज्ञानयज्ञाचरणदशायां न तदपेक्षणमिति, यज्ञे पशोर्विशसनाच्छोकसं. भवेऽपि नात्र ज्ञानयज्ञे तत्संभव इति चार्थः प्रतीयते ॥
तथाऽत्र 'निष्पावके शाके' इति सप्तम्यन्तपाठो लेखकप्रमादपतितः स्यात् । 'निष्पावकोऽशोकः इति प्रथमान्तपाठस्तु समीचीन इति प्रतिभाति ॥
ततश्चायं श्लोको ग्रन्थकर्तुः भट्टभास्करस्य कालसूचनाय न प्रभवतांति प्रतिभाति। अतश्चायं भट्टभास्करः सायणाचार्यादर्वाचीन इत्यत्र प्रमाणं गवेषणीयम् ॥
वस्तुतस्तु--माधवीयायां धातुवृत्तौ भ्वादिप्रकरणे दधात्वर्थनिरूपणावसरे “क्षरणस्वादुकरणनाशनार्थत्वं अहोरात्राणि मरुतो विलिष्टं सूदयन्त्वित्यत्राह भट्टभास्करः” इत्यनेन भट्टभास्करनामोत्की. तनपूर्वकं "अहोरात्राणि मरुतश्च तव विलिष्टं विनाशितं विश्लिष्टं वा सूदयन्तु क्षारयन्तु स्वादुकुर्वन्तु वा । यद्वा यद्विश्लिष्टं यागायोग्यं यद्विरूपं विशसितं तद्विनाशयन्त्विति" इति तैत्तिरीयसंहितापञ्चमकाण्डीयद्वितीयप्रश्नगतद्वादशानुवाकीयो भट्टभास्करीयभाष्यग्रन्थ एवानूदितो दृश्यते । तस्मादयं भट्टभास्करः सायणाचार्यात्प्राचीन एवेति निश्चीयते ॥
इत्थं च "तथाऽपि भट्टभास्करोऽयं माधवाचार्यान्न प्राचीन इति तु निश्चितमेवेति विदो विदांकुर्वन्तु" 'इत्यानन्दाश्रममुद्रितभट्टमास्करीयरुद्राध्यायभाष्यभूमिकायां अक्षोभ्यमुनिं विशिष्टाद्वैतवादिनं मन्वानविना प्रमाणप्रदर्शनं यत्प्रतिज्ञातं, तत्र किं वा प्रमाणं स्यादिति विपश्चिद्भिर्विमर्शनीयमित्युपरम्यते ॥
D.C.I.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com