________________
128
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः
त्सोमार्षेयम् । ब्रह्म ब्राह्मणजातिं ब्रह्मवर्चसं वा मदीयं सन्धत्तं संहितमविच्छिन्नं कुरुतं मया सह । किंच तत् ब्रह्म मे जिन्वतं [ माय ] प्रीणयतम् ॥
उपसंहारः
व्युष्टिर्वा इत्यादि । एवं विदित्वा यजमानश्च व्युच्छति । वस्यसी वस्यसी व्युच्छतीति सामर्थ्यात् । अथो अपि खलु तमश्च सर्व बाह्याभ्यन्तरं चापहते । व्यत्ययेनात्मनेपदम् । अग्निष्टोममिति । अग्निष्टोममुदयनीयमन्ते आहरति । अग्नेस्सर्वदेवतात्वात्तासु (त्मकत्वेन सर्वदेवतासु) प्रतिष्ठितो भवति । सन्तिष्ठते राजसूयः ॥
॥ इति श्रीभट्टभास्करमिश्रविराचेते यजुर्वेदभाष्ये पारक्षुद्रे प्रथमेऽके अष्टमप्रपाठके दशमोऽनुवाकः ॥ ॥ समाप्तश्च प्रपाठकः ॥
प्रतिपाद्य विषयः
कोशेऽस्मिन् परिदृश्यमाने तैत्तिरीयब्राह्मणभाष्यभागे No. 100 मूलकोशे प्रदर्शितानां प्रथमाष्टकीयानां विषयाणां विवरणं नातिविस्तृतं नातिसंगृहीतं च तत्र तत्रोदात्तादिस्वरप्रवृत्तिकथनपूर्वकं प्रणतं दृश्यते ॥ वक्तव्य विशेष:
कोशेऽस्मिन् प्रथमाएकमात्रस्य भाष्यं दृश्यते । वाराणसीसंस्कृतपाठशालात आनीत कोशमादर्शीकृत्य लिखितोऽयं कोशः, 1895 तमे कैस्ताब्दे कोशान्तरावलम्बेन संशोधितश्च ॥
एतद्ब्राह्मणभाष्यप्रणेता भट्टभास्करमिश्रः कौशिकगोत्रज इति तृतीयाकान्ते परिदृश्यमानेन
एष निष्पावके शाके कुशिकान्वयजन्मना | भट्टभास्करमिश्रेण ज्ञानयज्ञः प्रवर्तितः ॥
इत्यनेन श्लोकेनावगम्यते । केचिदेतच्छलोके 'निष्पावके शाके ' इत्यत्र कादिनवेत्यक्षरगणितक्रममनुसृत्य 1420 तमशकाब्दकालिकत्वमस्य भट्टभास्करमिश्रस्य स्यादित्यभ्यूहन्ते । तथा — अत्रत्यनिष्पावकशाकशब्दार्थ परामृशन्तः पावकरहिततण्डुलादिशाकैः ज्ञानयज्ञः प्रकीर्तित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com