________________
88
DESCRIPTIVE CATALOGUE OF SANSKRIT NSS.
[वेदः
तथाऽस्य महिदासस्य दासान्तनामधेयमात्रेण दासीपुत्रताकल्पने दिवोदाससुदासप्रभृतयः पुराणेषु स्मर्यमाणाः क्षत्रियप्रवरा अपि दासीपुत्त्रां भवेयुः । अतोऽस्य भूदेव्यनुग्रहविशेषादेव दिव्यज्ञानावाप्तेः प्रदर्शिताख्यायिकायामुपलम्भात् भूदेव्यां भक्तिवशादेवास्य तादृशं नामधेयं प्रावर्ततेति स्वरसतरमुपपद्यते ॥
एवमेतन्मातृनामधेयस्येतरापदस्य द्विजेतरार्थकत्वकल्पनमपि प्रमाणानुपलम्भपराहतम् । तस्याश्चेतरानाम्नयाः पतिप्रीतिविषयत्वाभावातादृशनामधेयप्रवृत्तिरित्यभ्यूह एव प्रदर्शिताख्यायिकाबलात्समुचित इति नात्र विशेषतो वक्तव्यम् ॥
एवं 'विद्वानाह महिदासः' इत्यैतरेयारण्यकवाक्य महिदासस्य ऋषिरिति विशेषणं परित्यज्य विद्वानिति विशेषणश्रवणमप्यस्य न दासी. पुत्रतां साधयति । ऋषधातुश्च 'ऋषी गतौ' इति हि धातुपाठे निर्दिष्टः । तत्र विदधातुवत् गत्यर्थकतया ज्ञानार्थक इत्यवश्यमूरीकरणीयम् । गत्यर्थानां ज्ञानार्थकत्वस्य वैयाकरणसमयसिद्धत्वात् । अत एव वेदपर्याय ऋषिशब्दः 'तदुक्तमृषिणा' इत्यादौ श्रूयते । ततश्च प्रकृते कर्तर्थकोणादिकप्रत्ययन्तस्य ऋषिशब्दस्य ज्ञानर्थकत्वं संपद्यते। तथा च ऋषिरिति विशेषणेऽपि ऋषिपदं ब्राह्मणमेवाभिधत्त इति न नियमः । अत एव श्रीमद्वाल्मीकिरामायणेऽयोध्याकाण्डे वैश्याच्छूद्रायामुत्पन्न करणाख्यसङ्करजातीये तत्पितरि वैश्ये च 'ऋषेहि न्यस्तदण्डस्य' 'नाशकत्तीबनायासमकर्तुं भगवानृषिः' इत्यादावृषिपदं प्रयुक्तं दृश्यते ।
किंच सायणायैरेव तद्भाष्ये 'उक्तार्थदााय महर्षिवाक्यं दर्शयति' इत्यवतार्य 'महिदासस्तादृशो महर्षिः' इति महिदासो महर्षिपदेनैव विशीषतः । ततश्च विद्वानिति विशेषणे ऋषिरिति विशेषणे वा वैलक्षण्याभावादस्य महिदासस्य दासीपुत्रताग्राहकं प्रमाणं गवेषणीयम्। किंचात्रैतरेयोपनिषद्भाष्यादौ श्रीमदानन्दतीर्थमुनिप्रभृतयो महिदासमेनं भगवतो विष्णोरवतारमाचक्षते । अतोऽस्य महिदासस्य दासीपुत्त्रत्वकल्पनं चिरन्तनानां विपश्चितामहृदयङ्गममित्यलं प्रपञ्चेन ॥
तस्माद्दिजातिभिरनुष्ठेयस्य महतो यागाख्यकर्मण इतिकर्तव्यताप्रतिपादकस्यास्य ब्राह्मणस्य दासीपुत्त्रप्रवक्तृकत्वकल्पने प्रमाणानुप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com