________________
ब्राह्मणं]
GOVERNMENT ORIENTAL LIBRARY. ITSORE
87
वक्तव्यावशेषः
कोशेऽस्मिन् ऐतरेयब्राह्मणं समग्रं दृश्यते । इदमिदानीमेतद्राह्मणप्रवक्तृविषये किंचित्प्रस्तूयते
'एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः' इत्यैतरेयारण्यके श्रवणात् कस्यचिदृषेरितराख्यायां पत्नयां समुत्पन्नो महिदासनामा महर्षिः ऋक्शाखीयस्यास्य ब्राह्मणस्य प्रवक्तेति ज्ञायते ॥
सोऽयमैतरेयो महिदासो भार्यान्तरपुत्रेष्वेव स्नेहातिशयं वहता पित्रा कस्यांचिद्यज्ञसभायां भार्यान्तरपुत्तानेवोत्सङ्गे स्थापयता दूरीकृतः स्वजननीस्मृतया भूदेव्या तस्यामेव सभायामात्मनो वैमात्रेयापेक्षया पाण्डित्याधिक्यमवगमय्य समधिगतदिव्यसिंहासन एतद्राह्मणप्रतिभासनरूपं वरमप्यधिगत्य ब्राह्मणमेतत्प्रकाशयामासेति श्रीमत्सायणायेंरप्यत्र संप्रदायविदाख्याता काचनाख्यायिका प्रादर्शि ॥
अत्र केचिदाधुनिका एतद्ब्राह्मणप्रवक्तुमहिदासस्य श्रीसायणार्याभिहिताख्यायिकायां यज्ञसभायां पित्रुत्सङ्गाद्दरीकरणदर्शनात् दासान्तनामधेयपरामर्शात् ऋष्यादिपदं विहाय विद्वानिति विशेषणश्रवणाञ्च दासीपुत्रत्वमभिप्रयन्ति ॥
तत्रेदं कौतुकाद्विमृश्यते । किमस्य महिदासस्य पित्रुत्सङ्गादरीकरणं तस्य दासीपुत्रतामापादयति । तथा सत्यौत्तानपादे वस्यापि पित्रुत्सङ्गादरीकरणस्य पुराणेषु स्मरणादासीपुत्त्रत्वं स्यात् । न हि तत्कस्यापि सम्मतम् ॥
नन्वस्य महिदासस्य यज्ञसभायां पित्रा निजोत्सङ्गादरीकरणं दासीपुत्रत्वादेवेति चेत्, न दृश्यत इदं सायणार्यप्रदर्शितायामाख्यायिकायां महिदासो दासापुत्रत्वात्पितुरुत्सङ्गमधिरोढुं नाशक्नोदिति, किंतु 'तदीयस्य तु पितुर्भार्यान्तरपुत्त्रेष्वेव स्नेहातिशयो न तु महिदासे' इति स्नेहाभाव एव तत्र कारणं प्रदर्शितम् । दृष्टं हि नामैतल्लोकेऽनेकपनीकस्य कस्यांचिद्भार्यायां तत्सूनुषु बौदास्यम् । ईदृश्या लोकरीतेरभ्युपगमादेवाख्यायिकादृश्यमानस्य महिदासावमाननस्योपपत्तौ कथं तावन्मात्र तस्य दासीपुत्त्रतां साधयेत् । स्नेहाभावे परं निदानं दासीपुत्रत्वमेवेति तु प्रमाणेनैव साधनीयम् । न च तादृशं प्रमाणमुपलभामहे ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com