SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ GOVERNMENT ORIENTAL LIBRARY, MYSORE 85 प्रतिपाद्यविषयः अस्मिन् ब्राह्मणे अष्टौ पञ्चिका दृश्यन्ते । आहत्य च तासु ४० अध्यायास्सन्ति । तत्र प्रथमेऽध्याये -अग्नेर्विष्णोश्च सर्वदेवताप्राथम्यसर्वोत्तमत्वाभ्यां प्रशंसनपूर्वकं तद्देवताकाया इष्टेविधिः अग्नाविष्णुदेवताकपुरोडाशनिवापप्रशंसनं इत्यादिकं दृश्यते. द्वितीयाध्याये-प्रायणीयपदार्थः प्रायणीयोदयनीययोः प्रशंसा तदुपयोगिन्याख्यायिका अग्नयादियागविधानमित्यादिकं दृश्यते. तृतीये-सोमक्रयणे दिनियमः तत्र प्रत्यवायः सोमक्रयणावं पठितव्या ऋचः सोमप्रवहणाद्यङ्गभूतमन्त्रा इत्यादिकं दृश्यते. तुरीये-प्रवर्योपपादकाख्यायिकदिकं दृश्यते. पञ्चमे-सोमक्रयविधानोपयोग्याख्यायिकादिकं दृश्यते. षष्ठे-यूपप्रशंसााख्यायिकादिकमभिधीयते. सप्तमे-पर्यग्निकरणाख्यस्य कर्मणो विधानोपयोग्याख्यायिकादिकं कथ्यते. अष्टमे-अपोनप्त्रीयं तच्छेषभूता उपांश्वादिग्रहाश्चाभिधीयन्ते. नवमे-द्विदेवत्यग्रहादिकं तूष्णींशंसनप्रशंसादिकं च परिदृश्यते. दशमे-आहावनिविदादिसूक्तविधिः अच्छावाकादिशंसनं च दृश्यते. एकादशे-प्रउगप्रशंसा वषद्कारप्रैषादिप्रशंसादयश्च दृश्यन्ते. द्वादशे-आहावप्रभेदादयः परिदृश्यन्ते. त्रयोदशे-सोमयोपयोगिकथामरुत्वतीययागादिकं दृश्यते. चतुर्दशे-अग्निष्टोमस्सर्वयमकतूनांयोनित्वेनास्तूयत प्राक्परस्तात्। देवै स्स्तोमैस्संस्तुतोऽसौ चतुर्भिर्वाचा मन्तैर्मध्यमैरुत्तमैश्च ॥ पञ्चदशे संस्थेष्टीनां वाग्यमश्वविजां च यागा देवीदेविकानां विशेषाः । संस्थोक्थ्यस्य स्तोत्रशस्त्रप्रक्लप्तिः शस्त्रण्याहुः शस्त्रिणां होतृकाणाम् ॥ षोडशे-पोडशोसंस्थाप्रशंसादि दृश्यते. सप्तदशे-अतिरात्रक्रतूपयोगिन आश्विनशस्त्रस्य विधानोपयोग्याख्यायिकादिकमभिधीयते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy