________________
76
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
वेदः
Age of Ms.-Old. Cnodition of Ms. --Not very
Correct or incorrect- Appears ___to be correct. Complete or - incomplete
Complete.
good
उपक्रमः
हरिः ओम् ॥ अथ खल्वयमारुषः(र्षः) प्रदेशो भवत्यूषीणां नामधेयगोत्रोपधारणं स्वयं यशस्यं धन्यं पुष्टयं (ण्यं) पुत्र्यं पशव्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यं प्राक्प्रतराशिकमित्याचक्षते । तदप्येवमाहुर्य इदमुपधारयत एकैकस्यदिव्यं वर्षसहस्रमतिथिर्भवत्यभिनन्दितः प्रतिनन्दितो मतः पूजितस्ततः स्वाध्यायफलमुजीवतीति । अथापि ब्राह्मणं भवतिउपसंहारः___ अन्त्यं वैकल्पिकं तन्मित्रावरुणयोश्चक्षुरित्याचक्षते । श्रोत्रं च तदेवके । द्वितीयोऽतीषङ्गसन्मित्रावरुणयोः श्रोत्रमित्याचक्षते । चक्षुश्च तदेवके । तृतीयोऽतीषङ्गस्तदिन्द्रस्य शिर इत्याचक्षते। आदित्यस्योन्नयन्तं तदादित्यात्मेत्याचक्षते । ऐन्द्रयो महानाम्नयः प्रजापतेर्वा विष्णोर्वा विश्वामित्रस्य वा सिमा वा मट्टण्या * वाऽध्वरमा वा शक्वर्यो वा शक्कों वा ॥
इत्याये षष्ठोऽध्यायः ॥ आर्षेयव्राह्मणं समाप्तम् ॥ प्रतिपाद्यविषयः
आर्षेयव्राह्मणेऽस्मिन् तत्तत्सामसाक्षात्कर्तृऋषिदेवतानामानि केवलं निर्दिश्यन्ते । न तु ब्राह्मणान्तरवदत्र किश्चिदपि प्रयोगक्रमादिकमभिधीयते ॥
वक्तव्यविशेषः"" अष्टौ हि ब्राह्मणग्रन्थाः प्रौढं ब्राह्मणमादिमम् । षड्विंशाख्यं द्वितीयं स्यात्ततः सामविधिर्भवेत् ॥ आर्षेयं देवताध्यायो मन्त्रं वोपनिषत्ततः । संहितोपनिषद्वंशो ग्रन्था अष्टावितीरिताः ॥" * मण्डन्या, मढण्या, मढ्या, इति कोशान्तरेषु पाठा दृश्यन्ते.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com