________________
74 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Cac:विश्वस्येति, एवं हि भवना(न्तो) हे देवा इति, सर्वदेवानां वलरूपेणावस्थानादिन्द्रस्संबोध्यत इति ॥
इति श्रीभरतस्वामी महानाम्नि(म्नीः) यथामति ।
व्याख्या (ख्यत् स्खलितमस्यात्र क्षमतां वलवृत्रहा ॥ इति श्रीभरतस्वामिनः कृतौ सामवेदभाष्ये महानाम्नीविवरणम् ॥ प्रतिपाद्यविषयः
भरतस्वामिप्रणीतेऽस्मिन् सामसंहिताभाष्ये अग्नीन्द्रादिस्तुतिपरस्य आरण्यकमहानाम्नयार्चिकसहितस्य पूर्वार्चिकस्य समग्रस्य सुबोधयैव शैल्या तत्तक्लिष्टशब्दव्युत्पत्तिप्रदर्शनपूर्वकं साधु विवरणं दृश्यते ॥ वक्तव्यविशेषः
भरतस्वाम्याह्वयोऽयं सामसंहिताभाष्यप्रणेता काश्यपगोत्रजो नारायणार्ययज्ञदाम्बयोस्सूनुः भोसलाधीश्वरं रामनाथभूपालं समाश्रितः श्रीरङ्गवासी भाष्यमिमं प्राणैषीदिति-..
'इत्थं श्रीभरतस्वामी काश्यपो यज्ञदासुतः। नारायणार्यतनयो व्याख्यत्साम्नामृचोऽखिलाः ॥ ‘भोसलाधीश्वरे पृथ्वी रामनाथे प्रशासति । व्याख्या कृतेयं क्षेमेण श्रीरङ्गे वसता मया ॥'
इति छन्दआर्चिकान्ते भाष्यारम्भे च परिदृश्यमानपद्याभ्यामव. सीयते । भाष्यादावेव 'नत्वा नारायणं देवं' इति पद्येन नारायणनमनकथनादयं भाष्यकारो वैष्णवश्चेति ज्ञायते । भाष्येस्मिन् क्वचित्क्वचिदविवरणावसरे सायणीयभाष्यतो वैलक्षण्यमपि दृश्यते । कोशेऽस्मिन् छन्दआर्चिकारण्यकार्चिकमहानाम्नयार्चिकानां भाष्यं समग्रं दृश्यते । कोशेऽस्मिन् परिदृश्यमानं लेखनं च बह्वशुद्धसंदूषितमिति ॥
No. 67 (2975). सामसंहिताभाष्यम्.
Sama-samhita-bhāsyam. Author--Bharataswamin. | Size-153X ] inches. Substance--Palm-leaf. Character—Grantha.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com