________________
यचित्तहरैरुदारैः, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥ बुद्धयाविनाऽपि विबुधाचितपादपीठ !, स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिदुबिम्ब-मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३॥ वक्तुं गुणान् गुणसमुद्र शशांककान्तान् , कस्ते समः सुरगुरुप्रतिमोऽपिबुद्धया कल्पान्तकालपवनोद्धतनचक्रं, को वा तरीतुमलमम्बुनिधि भुजाभ्याम् ? ॥ ४ ॥ सोऽहं तथापि तव भक्तिवशान्मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्त। प्रीत्ययाऽऽत्मवीर्यमविचार्यमृगोमृगेन्द्र, नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बनान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति, तश्चारुचूतकलिकानिकरैकहेतु; ॥ ६ ॥ त्वत्संस्तवेन भवसन्ततिसनिवद्ध पापं क्षणात्तयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु, सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७॥ मत्वेति नाथ ! तव संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ता फलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥ प्रास्तां तव स्तवनमस्तसमस्तदोषं, त्वत्संकथापिजगतांदुरितानिहन्ति । दूरसहस्रकिरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकाशभांजि ॥६॥ नात्यद्भुतं भुवनभूषण भूतनाथ !, भूतैर्गुणौ विभवंतिमभिष्टुवन्तः । तुल्याभवन्ति भवतो ननु तेन किंवा ? भूत्याश्रितम् य इह नात्मसमं , करोति ॥ १०॥ दृष्ट्वा भवन्तमनिमेषविलोकShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com