________________
( १७ ) मप्रेरितं चेदिह चेतनेन । यथा मृदित्येतदपास्पमान
माकर्णनीयं पुरतः सकणः॥४॥ तृतीयकल्पे कृतकृत्यभावः
कथं भवेद् भूतपतेः कथंचित् । प्रयोजनं तस्य तथाविधस्य
धर्मादिकं हन्त ! विरुध्यते यत् ॥ ५॥ अथाऽपि शम्भुर्जगतां विधाने
प्रवर्तते क्रीडनकौतुकेन । कथं भवेत् तर्हि स वीतरागः
सखे ! प्रमत्ताभकमण्डलीव १ ॥६॥ विनिग्रहाऽनुग्रहसाधनाय
प्रवर्तते चेद् गिरिशस्तदानीम् । । विरागता द्वेषविमुक्तता वा __ तथाविधवामिवदस्य न स्यात् ॥ ७॥ उत्पत्तये न च सुखस्य तथा प्रवृत्तिः
शम्भोर्यतः सुखगुणोऽत्र न सम्मतस्ते । स स्वीकृतो दशगुणेश्वरवादिभिय
स्तैरप्यसावुपगतो बत ! नित्य एव ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com