________________
वृक्षाः प्राहु:-च्छायां कुर्मों वयं लोके, फलपुष्पाणि दद्महे । पक्षिणां सर्वदाधारा, गृहादीनां च हेतवः
॥८॥ परोपकारिणां निरुपकारिणां साम्यं कथं ? पुनः कवीश्वरेणोक्तम्येषां न विद्या० मनुष्यरूपेण हि धूलिपुत्राः ॥९॥ इति श्रुत्वा रेणुराह- कारयामि शिशुक्रिडां, पङ्कनाशं करोमि च । मत्तोऽजनि रजःपर्व, लेखे क्षिप्तं फलप्रदम्
॥१०॥ पुनरपरेण विदुरेणोक्तम्-येषां न विद्या मनुष्यरूपा भषणस्वरूपाः
॥११॥ ततः श्वा प्राह-स्वामिभक्तः सुचैतन्यः, स्वल्पनिद्रः सदोद्यमी। अल्पसंतोषवान् शूरः, तस्मात् तत्तुल्यता कथम् ॥१२॥ तेन ततोऽधिक गुणोऽहम् कथं समः, पुनः प्रवीणेन प्रोक्तम्-येषां न विद्या० मनुष्यरूपेण खराः स्फुरन्ति इति श्रुत्वाखरःप्राह-शीतोष्णं नैव जानामि, भारं सर्व वहामि च । तृणभक्षणसंतुष्टः, सदाऽपि प्राज्वलाननः
॥ १४ ॥ पुनः कोविदेन गदितम्- येषां न विद्या मनुष्यरूपेण भवन्ति काकाः॥ इत्युक्ते काका प्राह-प्रियं दूरं गतं गेह-माप्तं जानामि तत्क्षणात् । न विश्वसामि कस्यापि, काले चालयकारकः ॥१६॥ अहं तु बहुगुणः कथं तत्सदृशःस्याम् ? पुनरपरो निपुणो बभाणयेषां न विद्या० मनुष्यरूपेण भवन्ति चोष्टाः उष्टः प्राह- वपुर्विषमसंस्थानं, कर्णज्वरकरोरवः ।
करमेणाशु गत्यैवाऽच्छादिता दोषसंततिः ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com