SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ तीश ! आसमन्तात् जितो भया कात्या रतीशो येनासौ आजितभारतीशस्तस्य मंबोधनम् । अथवा हे अजित ! न जितो देवेन्द्रादिभिरित्यजितस्तस्य संबोधनम् । हे भारतीश ! इति पूर्ववत् । यद्वा हे अजितभ ! अजिता भा कान्तिर्यस्यासौ अजितभस्तस्य संबोधनम् अनेनानुपमकान्तिमचं मूचितम् । हे अरतीश ! न विद्यते रतीशः कंदो यस्यासौ अरतीशस्तस्य संबोधनम् । त्वमेव धराया यशसाऽघः अन्यच्छेषम्-श्रीअजितजिनपक्षवदिति द्वितीयस्तुत्यर्थः ॥२॥ यदैताभ्यां तीर्थकृयामन्यः कश्चिन्मूलनायकस्तदा विवक्षामाधान्यादेव तं अग्रग जिनं चेतसि अधिकृत्य एषापि पूर्वमुच्चार्या तत्राऽर्थी यथा हे आप्त! हे जिनेश्वर ! खमेव धरायां यशसाऽधः हे वर्द्धमान ! इत्यजित जिनवत् हे आजितभारतीश ! अस्यार्थस्त्रिधापि श्रीवीरपक्षवत् शेषं सर्व श्रीअजितपक्षवदिति तृतीयस्तुत्यर्थः ॥ ३॥ अथ समस्त जिनवरश्रेणिमुद्दिश्यापि द्वितीयवारमेषैव भणनीया तत्र चायमयः प्रकाश्यते यथा हे जिनराजराजि ! जिनानां सामान्यकेवलिनां मध्ये राजते शोभन्ते इति जिनराजास्तेषां राजी-श्रेणिः सा तथा तस्याः संबोधनम् । त्वमेव धरायां यशसा अधः त्वं कि विशिष्टा ? ईस्तुता ईर्लक्ष्मीस्तया स्तुना । श्रीवर्द्धमाना इत्यजित जिनवत् । आजितभारतीशा अस्यार्थो द्विधाऽपि श्रीमहावीरवत् परं स्त्रीलिंगकर्तविशेषणत्वेन व्याख्येयमित्येतत्पदद्वयम् । हे अजित ! हे भारतीश! इत्यामंत्रणद्वयस्य स्त्रीलिंगेऽसंभवित्वादत्र नोररोकृतं । त्वं किं विशिष्टा ? संमददा संमदो हर्षस्तं ददातीति संमददा, केषाम् ? आप्तपुंसां अन्यच्छेषं श्रीअजितपक्षवदिति चतुर्थस्तुत्यर्थः ॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034788
Book TitleChamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Original Sutra AuthorN/A
AuthorKshantivijay
PublisherHirachand Kakalbhai Shah
Publication Year1923
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy