________________
संशधियन्तु विबुधाः येऽमत्सरा मय्यनुग्रहं कृत्वा ॥१॥ इति श्रीआदिनाथ १ श्रीअभिनन्दन २ श्रीशान्ति ३ श्रोनेमि ४ श्रीपाच ५ श्रीवीर ६ श्रीसाधारणजिनानां ७ तथा श्री५विजयदानसूरींद्राणां स्तुत्यवचूरिः संपूर्णा ॥
॥ षट् सन्धाना स्तुतिः ॥
श्रीमत्सान्निमस्कृत्य, सर्वानेकस्तुतेग्यिम् ।
व्याख्या प्रतन्यते षड्भिः, प्रकारैर्बोधहेतवे ॥१॥ सा चेयम्-श्रीवर्द्धमानाजितभारतीशा, वृधोधरायां यशसांभसेव ।
खमेववल्लीजिनराजराजी-स्तुतानिशं संमददाप्नपुंसाम् ॥१॥ इति श्रीअजितनाथ १ श्रीवीरजिन २ श्रीसाधारण ३ जिनानां स्तुतिः संपूर्णा ॥ __ व्याख्या-हे श्रीवर्द्धमान ! श्रियाऽष्टमहापातिहार्यरूपया वर्द्धमानस्तस्य संबोधनम् । हे अजित ! यहा श्रिया वर्द्धमानश्चासौ अजितश्चेति कर्मधारयस्तस्य संबोधनम् । हे भारतीश ! भया-कान्त्या रतीशः कंदर्पः स तथा तस्य संबोधनम् । कंदर्पवदूप इत्यर्थः। हे जिन ! जयति रागादिशत्रुनिति जिनस्तस्य संबोधनम्। हे राजराजीस्तुत ! राज्ञां-भूपतीनां राजी-श्रेणिस्तया स्तुतस्तस्य संबोधनम् ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat