________________
( ३८)
क्तिकहारास्तेषु अमलं आमूलं यावत् संक्रान्तं प्रतिबिम्बितं यत्पादाम्बुजं-चरणकमलं तस्य व्याजेन-कपटेन निर्व्याज-नि
यं यथा स्यात्ता, संदर्शितः स्वान्तेषु-चित्तेषु विश्रान्तःस्थितः सेवाया अतिहेवाकोऽत्याग्रहो येषां ते स्वान्तविश्रान्तसेवातिहेवाकास्तेषां स्वान्तविश्रान्तसेवातिहेवाकानां संसारे भावानां-जीवादिवस्तूनां उद्भवा-ज्ञानप्रादुर्भावा यया सा विनमदमरसुन्दरी० । अत्रायं परमार्थः-यथा वन्दारुवृन्दारकसुन्दरीहृदयस्थोदारहारेषुप्रचलननलिनमम लिनतया प्रतिबिंबित तथा मद्भक्तिरसिकहृदयेष्वहं भुवनभाविभावानवमासयामीति सरस्वती ज्ञापयति । पुनः कीदृशी शारदा? मणीमालिका-विचित्ररत्नमयी जपमालिका पुस्तिका प्रतीता कच्छपी भारती वीणा नीररुट्-कमलं ततः कर्मधारये, तानि तैः शस्ता-प्रशस्या हस्ता यस्याः सा मणीमालिका० । पुनः कीदृशी शारदा? अविहस्ताअव्याकुला , भक्तजनकार्यसाधने सावधानेत्यर्थः । पुनः कीदृशी शारदा? सदा-नित्यं सारं-द्रव्यं ददातीति सारदा ॥१॥ अथवा सन्-प्रशस्त आसारो-वेगवान् वर्षस्तं ददातीति सदा सारदा, सरस्वती ध्यानस्य विशिष्ट वृष्टिप्रदायकत्वात् ॥२॥ अथ सन्तं सत्यं आसारं-सुहृद्धलं दयते-पालयतीति सदा सारदा । देङ् पालने-इति धातुपाठोक्तेः ॥ ३ ॥ अथ-असतांअसाधूनां प्रासारं-प्रसारं द्यति-खन्डयति या सा असदासारदा । 'आसारो वेगवद्वर्षे सुहृदलप्रसारयोरित्यनेकार्थोके' ॥४॥अथ सदा-नित्यं सारं-जलं तद्वत् दायति-शोधयति जाड्यमलं या सा सारदा। दि प्रशोधने इत्युक्तः ॥ ५॥ अथसारं उत्कृष्टद्रव्यं ददातीति, सारं बलं ददातीति सारदा ॥६॥ अथ-सारो युक्तो दा-दानं यस्याः सा सारदा ॥७॥ 'सारो मजास्थिरांशयोः । बले श्रेष्ठे च सारं तु द्रविणे न्याय्ये वाइत्यनेकार्थोके । सह दासैः-अमरकिंकरैर्वर्तते या सा सदासा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com