________________
कायादयः ततो द्वन्द्वस्तेषामवभासो यथावस्वरूपप्रकाशस्तस्य विसारणं-विस्तारणं तत्र, किंभूतस्य ? तव सबलकरिणो-मत्तगजस्य कुत्र ? मायैव गुपिलत्वात् कुंजोवृक्षादि गहनेस्तत्र मायावनभंजने हस्ति तुल्यस्येत्यर्थः । पुनगिरं विशिनष्टि, दयारससारिणिं कृपाजलकुल्यां, चरणरमणीलीलागारं चारित्ररामा क्रीडागृहं महोदयसंगमे अपवर्गप्राप्तौ सरलसरणिं ऋजुमार्ग। अत्र हरिणीनाम छन्दः ॥ २७ ॥ लसंतं संसारे सुरनर समुल्लासकरणं,
वहे वारंवारं तव गुणगणं देव ! विपलम् । अपारं चित्ते वा बहुल सलिले बिंदुनिवहं,
महापारावारेऽमरणमय ! कल्लोलकलिले ॥२८॥ लसंतमित्यादि। लसंतं-प्रसरंतं संसारे-लोके सुरनरसमुल्लासकरणं देवमानवहर्षजनकं, हे देव! एवंविधं तव गुणगणं-चा. नादिगुणग्राम वारं २-पुनः २ अहं चित्ते-मनसि वहे-धारयामि, असाधारण धारणया संस्मरामीत्यर्थः। किंभूतं गुणगणं? विमलंउज्वलं अपारं-अनन्तं, कमिव ? महापारावारे-स्वयंभूरमणाख्य समुद्रे बिंदु निवहं वा, वा शब्द इवार्थः, बिदुनिवहमिव-जलबिंदुवृन्दमिव अपारं-असंख्यं यथाहि-चरमाधौजलबिंदु संख्याकर्त न शक्यते, तथा भगवद्गणानामपि एतच्चोपमानं देशतः प्रभुगुणानामनन्तत्वात् । किंभूते ? महापारावारे-बहुलसलिले भूरिजले-कल्लोलकलिले-तरंगगहने, हे अमरणभय ! मृत्युभयवर्जित इति भगवत्संबोधनं । अत्र शिखरिणीनाम छन्दः ॥२८॥
गुंजापुंजारुणकररुहाऽऽयाम संपनबाहो,
___ मंदारामे कुसुपसमयं वीरदेवाविलम्बम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com